अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 1
सूक्त - सिन्धुद्वीपः
देवता - आपः, चन्द्रमाः
छन्दः - त्रिपदा पुरोऽभिकृतिः ककुम्मतीगर्भापङ्क्तिः
सूक्तम् - विजय प्राप्ति सूक्त
इन्द्र॒स्यौज॒ स्थेन्द्र॑स्य॒ सह॒ स्थेन्द्र॑स्य॒ बलं॒ स्थेन्द्र॑स्य वी॒र्यं स्थेन्द्र॑स्य नृ॒म्णं स्थ॑। जि॒ष्णवे॒ योगा॑य ब्रह्मयो॒गैर्वो॑ युनज्मि ॥
स्वर सहित पद पाठइन्द्र॑स्य । ओज॑: । स्थ॒ । इन्द्र॑स्य । सह॑: । स्थ॒ । इन्द्र॑स्य । बल॑म् । स्थ॒ । इन्द्र॑स्य । वी॒र्य᳡म् । स्थ॒ । इन्द्र॑स्य । नृ॒म्णम् । स्थ॒ । जि॒ष्णवे॑ । योगा॑य । ब्र॒ह्म॒ऽयो॒गै: । व॒: । यु॒न॒ज्मि॒ ॥५.१॥
स्वर रहित मन्त्र
इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ। जिष्णवे योगाय ब्रह्मयोगैर्वो युनज्मि ॥
स्वर रहित पद पाठइन्द्रस्य । ओज: । स्थ । इन्द्रस्य । सह: । स्थ । इन्द्रस्य । बलम् । स्थ । इन्द्रस्य । वीर्यम् । स्थ । इन्द्रस्य । नृम्णम् । स्थ । जिष्णवे । योगाय । ब्रह्मऽयोगै: । व: । युनज्मि ॥५.१॥
अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 1
विषय - विद्वानों के कर्तव्य का उपदेश।
पदार्थ -
[हे विद्वानो !] तुम (इन्द्रस्य) आत्मा के (ओजः) पराक्रम (स्थ) हो, (इन्द्रस्य) आत्मा के (सहः) पुरुषार्थ (स्थ) हो, (इन्द्रस्य) आत्मा के (बलम्) बल (स्थ) हो, (इन्द्रस्य) आत्मा की (वीर्यम्) वीरता (स्थ) हो। (इन्द्रस्य) आत्मा की (नृम्णम्) शूरता (स्थ) हो। (जिष्णवे) (योगाय) संयोग के लिये (ब्रह्मयोगैः) ब्रह्मयोगों [परमात्मा के ध्यानों] से (वः) तुम को (युनज्मि) मैं जोड़ता हूँ ॥१॥
भावार्थ - जो मनुष्य परमात्मा के गुणों में चित्त लगाते हैं, वे सब प्रकार आत्मोन्नति करके अनेक प्रकार से ऐश्वर्यवान् होते हैं ॥१॥
टिप्पणी -
१-(इन्द्रस्य) आत्मनः (ओजः) पराक्रमः (स्थ) भवथ (सहः) पुरुषार्थः (बलम्) सामर्थ्यम् (वीर्यम्) वीरता (नृम्णम्) अ० ४।२४।३। शूरत्वम् (जिष्णवे) अ० ३।१९।१। विजयिने (योगाय) संयोगाय। अवसराय (ब्रह्मयोगैः) ब्रह्मणः परमेश्वरस्य ध्यानैः (वः) युष्मान् (युनज्मि) संयोजयामि ॥