अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 15
सूक्त - सिन्धुद्वीपः
देवता - आपः, चन्द्रमाः
छन्दः - चतुरवसाना दशपदा त्रैष्टुभगर्भातिधृतिः
सूक्तम् - विजय प्राप्ति सूक्त
यो व॑ आपो॒ऽपां भा॒गो॒प्स्व॒न्तर्य॑जु॒ष्यो देव॒यज॑नः। इ॒दं तमति॑ सृजामि॒ तं माभ्यव॑निक्षि। तेन॒ तम॒भ्यति॑सृजामो॒ यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः। तं व॑धेयं॒ तं स्तृ॑षीया॒नेन॒ ब्रह्म॑णा॒नेन॒ कर्म॑णा॒नया॑ मे॒न्या ॥
स्वर सहित पद पाठय: । व॒: । आ॒प॒: । अ॒पाम् । भा॒ग: । अ॒प्ऽसु । अ॒न्त: । य॒जु॒ष्य᳡: । दे॒व॒ऽयज॑न: । इ॒दम् । तम् । अति॑ । सृ॒जा॒मि॒ । तम् । मा । अ॒भि॒ऽअव॑निक्षि । तेन॑ । तम् । अ॒भि॒ऽअति॑सृजाम: । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: । तम् । व॒धे॒य॒म् । तम् । स्तृ॒षी॒य॒ । अ॒नेन॑ । ब्रह्म॑णा । अ॒नेन॑ । कर्म॑णा । अ॒नया॑ । मे॒न्या ॥५.१५॥
स्वर रहित मन्त्र
यो व आपोऽपां भागोप्स्वन्तर्यजुष्यो देवयजनः। इदं तमति सृजामि तं माभ्यवनिक्षि। तेन तमभ्यतिसृजामो योस्मान्द्वेष्टि यं वयं द्विष्मः। तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥
स्वर रहित पद पाठय: । व: । आप: । अपाम् । भाग: । अप्ऽसु । अन्त: । यजुष्य: । देवऽयजन: । इदम् । तम् । अति । सृजामि । तम् । मा । अभिऽअवनिक्षि । तेन । तम् । अभिऽअतिसृजाम: । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: । तम् । वधेयम् । तम् । स्तृषीय । अनेन । ब्रह्मणा । अनेन । कर्मणा । अनया । मेन्या ॥५.१५॥
अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 15
विषय - विद्वानों के कर्तव्य का उपदेश।
पदार्थ -
(आपः) हे विद्वानो ! (यः) जो (वः अपाम्) तुम विद्वानों का (भागः) अंश (अप्सु अन्तः) विद्वानों के बीच (यजुष्यः) पूजायोग्य और (देवयजनः) विद्वानों करके संगतियोग्य है। (इदम्) अब (तम्) उस [तुम्हारे पूजनीय अंश] को (अति) आदरपूर्वक (सृजामि) मैं सिद्ध करता हूँ, (तम्) उस [अंश] को (मा अभ्यवनिक्षि) मैं न धो डालूँ [न नष्ट करूँ]। (तेन) उस [पूजनीय अंश] से (तम्) उस [शत्रु] को (अभ्यतिसृजामः) हम हराकर छोड़ते हैं, (यः) जो (अस्मान्) हम से (द्वेष्टि) कुप्रीति करता है और (यम्) जिससे (वयम्) हम (द्विष्मः) कुप्रीति करते हैं। (अनेन ब्रह्मणा) इस वेदज्ञान से, (अनेन कर्मणा) इस कर्म से और (अनया मेन्या) इस वज्र से (तम्) उस [दुष्ट] को (वधेयम्) मैं मारूँ और (तम्) उसको (स्तृषीय) मैं ढक लूँ ॥१५॥
भावार्थ - मनुष्यों को योग्य है कि दृढ़तापूर्वक विद्वानों से उत्तम शिक्षा ग्रहण करके और उनके उपकारों पर पानी न फेर कर वेदविद्या द्वारा बाहिरी और भीतरी शत्रुओं का नाश करें ॥१५॥
टिप्पणी -
१५−(यः) (वः) युष्माकम् (आपः) म० ६। हे विद्वांसः (अपाम्) म० ६। विदुषाम् (भागः) अंशः (अप्सु) विद्वत्सु (अन्तः) मध्ये (यजुष्यः) यजुष्-यत्। पूजार्हः (देवयजनः) विद्वद्भिः संगन्तव्यः (इदम्) इदानीम् (तम्) भागम् (अति) पूजायाम् (सृजामि) निष्पादयामि (मा अभ्यवनिक्षि) णिजिर् शौचपोषणयोः−लुङ्। मा अभितोऽवशोधयामि। न विनाशयामि (तेन) भागेन (तम्) शत्रुम् (अभ्यतिसृजामः) अभिभूय सर्वतो त्यजामः। वशीकुर्मः (यः) अप्रीतिं कुर्मः (तम्) (वधेयम्) वध हिंसायाम्-लिङ्। अहं हन्याम् (तम्) (स्तृषीय) स्तृञ् आच्छादने-आ० लिङ्। आच्छादितं क्रियासम् (अनेन) (ब्रह्मणा) वेदज्ञानेन (अनेन) (कर्मणा) (अनया) (मेन्या) अ० २।११।१। वज्रेण ॥