अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 27
सूक्त - कौशिकः
देवता - विष्णुक्रमः
छन्दः - त्र्यवसाना षट्पदा यथाक्षरं शक्वरी, अतिशक्वरी
सूक्तम् - विजय प्राप्ति सूक्त
विष्णोः॒ क्रमो॑ऽसि सपत्न॒हा द्यौसं॑शितः॒ सूर्य॑तेजाः। दिव॒मनु॒ वि क्र॑मे॒ऽहं दि॒वस्तं निर्भ॑जामो॒ यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः। स मा जिवी॒त्तं प्रा॒णो ज॑हातु ॥
स्वर सहित पद पाठविष्णो॑: । क्रम॑: । अ॒सि॒ । स॒प॒त्न॒ऽहा । द्यौऽसं॑शित: । सूर्य॑ऽतेजा: । दिव॑म् । अनु॑ । वि । क्र॒मे॒ । अ॒हम् । दि॒व: । तम् । नि: । भ॒जा॒म॒: । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: । स: । मा । जी॒वी॒त् । तम् । प्रा॒ण: । ज॒हा॒तु॒ ॥५.२७॥
स्वर रहित मन्त्र
विष्णोः क्रमोऽसि सपत्नहा द्यौसंशितः सूर्यतेजाः। दिवमनु वि क्रमेऽहं दिवस्तं निर्भजामो योस्मान्द्वेष्टि यं वयं द्विष्मः। स मा जिवीत्तं प्राणो जहातु ॥
स्वर रहित पद पाठविष्णो: । क्रम: । असि । सपत्नऽहा । द्यौऽसंशित: । सूर्यऽतेजा: । दिवम् । अनु । वि । क्रमे । अहम् । दिव: । तम् । नि: । भजाम: । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: । स: । मा । जीवीत् । तम् । प्राण: । जहातु ॥५.२७॥
अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 27
विषय - विद्वानों के कर्तव्य का उपदेश।
पदार्थ -
तू (विष्णोः) विष्णु [सर्वव्यापक परमेश्वर] से (क्रमः) पराक्रमयुक्त, (सपत्नहा) वैरियों का नाश करने हारा (द्यौसंशितः) आकाश से तीक्ष्ण किया गया, (सूर्यतेजाः) सूर्य से तेज पाया हुआ (असि) है। (दिवम् अनु) आकाश के पीछे (अहम्) मैं (वि क्रमे) पराक्रम करता हूँ, (दिवः) आकाश से (तम्) उस [शत्रु] को.... म० २५ ॥२७॥
भावार्थ - मनुष्य संसार के आधार आकाश और वृष्टि आदि के कारण सूर्य के उपकारों को विचार कर संसार में उपकार करें ॥२७॥
टिप्पणी -
२७−(द्यौसंशितः) छान्दसी वृद्धिः। द्युसंशितः। आकाशात् तीक्ष्णीकृतः (सूर्यतेजाः) सूर्यात् प्राप्ततेजाः (दिवम्) आकाशम् (दिवः) आकाशात्। अन्यत् पूर्ववत् ॥