अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 16
सूक्त - सिन्धुद्वीपः
देवता - आपः, चन्द्रमाः
छन्दः - चतुरवसाना दशपदा त्रैष्टुभगर्भातिधृतिः
सूक्तम् - विजय प्राप्ति सूक्त
यो व॑ आपो॒ऽपामू॒र्मिर॒प्स्वन्तर्य॑जु॒ष्यो देव॒यज॑नः। इ॒दं तमति॑ सृजामि॒ तं माभ्यव॑निक्षि। तेन॒ तम॒भ्यति॑सृजामो॒ यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः। तं व॑धेयं॒ तं स्तृ॑षीया॒नेन॒ ब्रह्म॑णा॒नेन॒ कर्म॑णा॒नया॑ मे॒न्या ॥
स्वर सहित पद पाठय: । व॒: । आ॒प॒: । अ॒पाम् । ऊ॒र्मि: । अ॒प्ऽसु । अ॒न्त: । य॒जु॒ष्य᳡: । दे॒व॒ऽयज॑न: । इ॒दम् । तम् । अति॑ । सृ॒जा॒मि॒ । तम् । मा । अ॒भि॒ऽअव॑निक्षि । तेन॑ । तम् । अ॒भि॒ऽअति॑सृजाम: । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: । तम् । व॒धे॒य॒म् । तम् । स्तृ॒षी॒य॒ । अ॒नेन॑ । ब्रह्म॑णा । अ॒नेन॑ । कर्म॑णा । अ॒नया॑ । मे॒न्या ॥५.१६॥
स्वर रहित मन्त्र
यो व आपोऽपामूर्मिरप्स्वन्तर्यजुष्यो देवयजनः। इदं तमति सृजामि तं माभ्यवनिक्षि। तेन तमभ्यतिसृजामो योस्मान्द्वेष्टि यं वयं द्विष्मः। तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥
स्वर रहित पद पाठय: । व: । आप: । अपाम् । ऊर्मि: । अप्ऽसु । अन्त: । यजुष्य: । देवऽयजन: । इदम् । तम् । अति । सृजामि । तम् । मा । अभिऽअवनिक्षि । तेन । तम् । अभिऽअतिसृजाम: । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: । तम् । वधेयम् । तम् । स्तृषीय । अनेन । ब्रह्मणा । अनेन । कर्मणा । अनया । मेन्या ॥५.१६॥
अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 16
विषय - विद्वानों के कर्तव्य का उपदेश।
पदार्थ -
(आपः) हे विद्वानो ! (यः) जो (वः अपाम्) तुम विद्वानों का (ऊर्मिः) वेग (अप्सु अन्तः) विद्वानों के बीच.... मन्त्र १५ ॥१६॥
भावार्थ - मन्त्र १५ के समान है ॥१६॥
टिप्पणी -
१६−(ऊर्मिः) अर्तेरूच्च। उ० ४।४४। ऋ गतौ−मि, ऊत्वम्। तरङ्गः। प्रकाशः। वेगः। अन्यत् पूर्ववत्−म० १५ ॥