अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 25
सूक्त - कौशिकः
देवता - विष्णुक्रमः
छन्दः - त्र्यवसाना षट्पदा यथाक्षरं शक्वरी, अतिशक्वरी
सूक्तम् - विजय प्राप्ति सूक्त
विष्णोः॒ क्रमो॑ऽसि सपत्न॒हा पृ॑थि॒वीसं॑शितो॒ऽग्निते॑जाः। पृ॑थि॒वीमनु॒ वि क्र॑मे॒ऽहं पृ॑थि॒व्यास्तं निर्भ॑जामो॒ यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः। स मा जी॑वी॒त्तं प्रा॒णो ज॑हातु ॥
स्वर सहित पद पाठविष्णो॑: । क्रम॑: । अ॒सि॒ । स॒प॒त्न॒ऽहा । पृ॒थि॒वीऽसं॑शित: । अ॒ग्निऽते॑जा: । पृ॒थि॒वीम् । अनु॑ । वि । क्र॒मे॒ । अ॒हम् । पृ॒थि॒व्या: । तम् । नि: । भ॒जा॒म॒: । य: । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्म: । स: । मा । जी॒वी॒त् । तम् । प्रा॒ण: । ज॒हा॒तु॒ ॥५.२५॥
स्वर रहित मन्त्र
विष्णोः क्रमोऽसि सपत्नहा पृथिवीसंशितोऽग्नितेजाः। पृथिवीमनु वि क्रमेऽहं पृथिव्यास्तं निर्भजामो योस्मान्द्वेष्टि यं वयं द्विष्मः। स मा जीवीत्तं प्राणो जहातु ॥
स्वर रहित पद पाठविष्णो: । क्रम: । असि । सपत्नऽहा । पृथिवीऽसंशित: । अग्निऽतेजा: । पृथिवीम् । अनु । वि । क्रमे । अहम् । पृथिव्या: । तम् । नि: । भजाम: । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: । स: । मा । जीवीत् । तम् । प्राण: । जहातु ॥५.२५॥
अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 25
विषय - विद्वानों के कर्तव्य का उपदेश।
पदार्थ -
तू (विष्णोः) विष्णु [सर्वव्यापक परमेश्वर] से (क्रमः) पराक्रमयुक्त, (सपत्नहा) वैरियों का नाश करने हारा, (पृथिवीसंशितः) पृथिवी से तीक्ष्ण किया गया, (अग्नितेजाः) अग्नि से तेज पाया हुआ (असि) है। (पृथिवीम् अनु) पृथिवी के पीछे (अहम्) मैं (वि क्रमे) पराक्रम करता हूँ, (पृथिव्याः) पृथिवी से (तम्) उस [शत्रु] को (निः भजामः) हम भागरहित करते हैं, (यः) जो (अस्मान्) हम से (द्वेष्टि) द्वेष करता है और (यम्) जिससे (वयम्) हम (द्विष्मः) द्वेष करते हैं, (सः) वह (मा जीवीत्) न जीता रहे, (तम्) उसको (प्राणः) प्राण (जहातु) छोड़ देवे ॥२५॥
भावार्थ - परमेश्वर की दी हुई अद्भुत शक्तियों से मनुष्य पृथिवी और अग्नि के उपकारों को विचार कर अपने दोषों और शत्रुओं का नाश करके आनन्दित होवे ॥२५॥
टिप्पणी -
२५−(विष्णोः) सर्वव्यापकात् परमेश्वरात् (क्रमः) क्रम-अर्शआद्यच्। पराक्रमयुक्तः (असि) (सपत्नहा) शत्रुनाशकः (पृथिवीसंशितः) पृथिवीसकाशात् तीक्ष्णीकृतः (अग्नितेजः) अग्नेः प्राप्ततेजाः (पृथिवीम्) (अनु) अनुसृत्य (विक्रमे) पराक्रमं करोमि (अहम्) (पृथिव्याः) भूमिसकाशात् (तम्) शत्रुम् (निर्भजामः) भागहीनं कुर्मः (मा जीवीत्) लुङि रूपम्। न जीवेत्। अन्यद् गतम् ॥