अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 23
सूक्त - अथर्वा
देवता - शतौदना (गौः)
छन्दः - अनुष्टुप्
सूक्तम् - शतौदनागौ सूक्त
यास्ते॒ जङ्घा॒ याः कुष्ठि॑का ऋ॒च्छरा॒ ये च॑ ते श॒फाः। आ॒मिक्षां॑ दुह्रतां दा॒त्रे क्षी॒रं स॒र्पिरथो॒ मधु॑ ॥
स्वर सहित पद पाठया: । ते॒ । जङ्घा॑: । या: । कुष्ठि॑का: । ऋ॒च्छरा॑: । ये । च॒ । ते॒ । श॒फा । अ॒मिक्षा॑म् । दु॒ह्र॒ता॒म् । दा॒त्रे । क्षी॒रम् । स॒र्पि:। अथो॒ इति॑ । मधु॑: ॥९.२३॥
स्वर रहित मन्त्र
यास्ते जङ्घा याः कुष्ठिका ऋच्छरा ये च ते शफाः। आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥
स्वर रहित पद पाठया: । ते । जङ्घा: । या: । कुष्ठिका: । ऋच्छरा: । ये । च । ते । शफा । अमिक्षाम् । दुह्रताम् । दात्रे । क्षीरम् । सर्पि:। अथो इति । मधु: ॥९.२३॥
अथर्ववेद - काण्ड » 10; सूक्त » 9; मन्त्र » 23
विषय - वेदवाणी की महिमा का उपदेश।
पदार्थ -
(याः) जो (ते) तेरी (जङ्घाः) जङ्घाएँ, (याः) जो (कुष्ठिकाः) कुष्ठिकाएँ [नख अङ्गुली बाहिरी अङ्ग] और (ऋच्छराः) ऋच्छराएँ [खुरों के ऊपर के भाग] (च) और (ये) जो (ते) तेरे (शफाः) खुर हैं, वे सब (आमिक्षाम्) आमिक्षा.... म० १३ ॥२३॥
भावार्थ - मन्त्र १३ के समान है ॥२३॥
टिप्पणी -
२३−(जङ्घाः) अ० ९।७।१०। गुल्फजान्वोरन्तराले अवयवाः (कुष्ठिकाः) अ० ९।४।१६। नखाङ्गुल्यादि-बहिर्भूता अवयवाः (ऋच्छराः) ऋच्छेररः। उ० ३।१३१। ऋच्छ गतौ-अर। खुरोपरिस्थभागाः (शफाः) खुराः। अन्यत् स्पष्टम् ॥