अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 5
सूक्त - अथर्वा
देवता - शतौदना (गौः)
छन्दः - अनुष्टुप्
सूक्तम् - शतौदनागौ सूक्त
स स्व॒र्गमा रो॑हति॒ यत्रा॒दस्त्रि॑दि॒वं दि॒वः। अ॑पू॒पना॑भिं कृ॒त्वा यो ददा॑ति श॒तौद॑नाम् ॥
स्वर सहित पद पाठस: । स्व॒:ऽगम् । आ । रो॒ह॒ति॒ । यत्र॑ । अ॒द: । त्रि॒ऽदि॒वम् । दि॒व: । अ॒पू॒पऽना॑भिम् । कृ॒त्वा । य: । ददा॑ति । श॒तऽओ॑दनाम् ॥९.५॥
स्वर रहित मन्त्र
स स्वर्गमा रोहति यत्रादस्त्रिदिवं दिवः। अपूपनाभिं कृत्वा यो ददाति शतौदनाम् ॥
स्वर रहित पद पाठस: । स्व:ऽगम् । आ । रोहति । यत्र । अद: । त्रिऽदिवम् । दिव: । अपूपऽनाभिम् । कृत्वा । य: । ददाति । शतऽओदनाम् ॥९.५॥
अथर्ववेद - काण्ड » 10; सूक्त » 9; मन्त्र » 5
विषय - वेदवाणी की महिमा का उपदेश।
पदार्थ -
(सः) वह [पुरुष] (स्वर्गम्) स्वर्ग [सुख विशेष] को (आ रोहति) ऊँचा होकर पाता है, (यत्र) जहाँ पर (दिवः) विजय के (अदः) उस (त्रिदिवम्) तीन [आय, व्यय, वृद्धि] के व्यवहार का स्थान है। (यः) जो (शतौदनाम्) सैकड़ों प्रकार सींचनेवाली [वेदवाणी] को (अपूपनाभिम्) अक्षीणबन्धु (कृत्वा) बनाकर (ददाति) दान करता है ॥५॥
भावार्थ - जहाँ पर विद्या के लाभ, दान और वृद्धि का व्यवहार है, और जो मनुष्य पूर्ण हितकारिणी वेदवाणी का प्रचार करते हैं, वे उन्नति करके सुख विशेष पाते हैं ॥५॥
टिप्पणी -
५−(सः) पुरुषः (स्वर्गम्) सुखविशेषम् (आरोहति) उन्नत्या प्राप्नोति (यत्र) यस्मिन् स्वर्गे (अदः) तत्। प्रसिद्धम् (त्रिदिवम्) अ० ९।५।१०। त्रि+दिवु व्यवहारे-क। त्रयाणां दिवानामायव्ययवृद्धिव्यवहाराणां स्थानम् (दिवः) दिवु विजिगीषायाम्−डिवि। विजयस्य (अपूपनाभिम्) पानीविषिभ्यः पः। उ० ३।२३। नञ् पूयी विशरणे दुर्गन्धे च−प प्रत्ययः, यलोपः। नहो भश्च। उ० ४।१२६। णह बन्धने-इञ्, नस्य भः। अपूपमविशीर्णम् अक्षीणं नाभिं बन्धुम् (कृत्वा) मत्वा (यः) (ददाति) प्रयच्छति (शतौदनाम्) म० १। बहुप्रकारसेचिकां वेदवाणीम् ॥