अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 3
सूक्त - अथर्वा
देवता - शतौदना (गौः)
छन्दः - अनुष्टुप्
सूक्तम् - शतौदनागौ सूक्त
बाला॑स्ते॒ प्रोक्ष॑णीः सन्तु जि॒ह्वा सं मा॑र्ष्ट्वघ्न्ये। शु॒द्धा त्वं य॒ज्ञिया॑ भू॒त्वा दिवं॒ प्रेहि॑ शतौदने ॥
स्वर सहित पद पाठबाला॑: । ते॒ । प्र॒ऽउक्ष॑णी: । स॒न्तु॒ । जि॒ह्वा । सम् । मा॒र्ष्टु॒ । अ॒घ्न्ये॒ । शु॒ध्दा । त्वम् । य॒ज्ञिया॑ । भू॒त्वा । दिव॑म् । प्र । इ॒हि॒ । श॒त॒ऽओ॒द॒ने॒ ॥९.३॥
स्वर रहित मन्त्र
बालास्ते प्रोक्षणीः सन्तु जिह्वा सं मार्ष्ट्वघ्न्ये। शुद्धा त्वं यज्ञिया भूत्वा दिवं प्रेहि शतौदने ॥
स्वर रहित पद पाठबाला: । ते । प्रऽउक्षणी: । सन्तु । जिह्वा । सम् । मार्ष्टु । अघ्न्ये । शुध्दा । त्वम् । यज्ञिया । भूत्वा । दिवम् । प्र । इहि । शतऽओदने ॥९.३॥
अथर्ववेद - काण्ड » 10; सूक्त » 9; मन्त्र » 3
विषय - वेदवाणी की महिमा का उपदेश।
पदार्थ -
(अघ्न्ये) हे न मारनेवाली शक्ति ! [वेदवाणी] (ते) तेरी (प्रोक्षणीः) शोधन शक्तियाँ [मेरे लिये] (बालाः) बाल [कूची समान] (सन्तु) होवें, [मेरी] (जिह्वा) जीभ (सम्) यथावत् (मार्ष्टु) शुद्ध होवे। (शतौदने) हे सैकड़ों प्रकार सींचनेवाली ! [वेदवाणी] (त्वम्) तू (शुद्धा) शुद्ध और (यज्ञिया) यज्ञयोग्य (भूत्वा) होकर (दिवम्) प्रकाश को (प्र) अच्छे प्रकार (इहि) प्राप्त हो ॥३॥
भावार्थ - मनुष्य सदा रक्षा और वृद्धि करने हारी वेदवाणी द्वारा सत्यभाषण आदि से शुद्ध होकर वेदविद्या का प्रकाश करे ॥३॥
टिप्पणी -
३−(बालाः) केशाः। कूर्चिका यथा (ते) तव (प्रोक्षणीः) शोधनशक्तयः (सन्तु) (जिह्वा) (सम्) सम्यक् (मार्ष्टु) शुध्यतु (अघ्न्ये) अ० ७।३।८। अघ्न्यादयश्च। उ० ४।११२। नञ्+हन हिंसागत्योः-यक्, उपधालोपः, टाप्। अघ्न्यः प्रजापतिः। हे अहिंसिके रक्षिके वेदविद्ये (शुद्धा) पवित्रा (त्वम्) (यज्ञिया) यज्ञार्हा (भूत्वा) (दिवम्) प्रकाशम् (प्र) प्रकर्षेण (इहि) प्राप्नुहि (शतौदने) म० १। शतप्रकारेण सेचिके ॥