अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 6
सूक्त - अथर्वा
देवता - शतौदना (गौः)
छन्दः - अनुष्टुप्
सूक्तम् - शतौदनागौ सूक्त
स तांल्लो॒कान्त्समा॑प्नोति॒ ये दि॒व्या ये च॒ पार्थि॑वाः। हिर॑ण्यज्योतिषं कृ॒त्वा यो ददा॑ति श॒तौद॑नाम् ॥
स्वर सहित पद पाठस: । तान् । लो॒कान् । सम् । आ॒प्नो॒ति॒ । ये । दि॒व्या: । ये । च॒ । पार्थि॑वा: । हिर॑ण्यऽज्योतिषम् । कृ॒त्वा । य: । ददा॑ति । श॒तऽओ॑दनाम् ॥९.६॥
स्वर रहित मन्त्र
स तांल्लोकान्त्समाप्नोति ये दिव्या ये च पार्थिवाः। हिरण्यज्योतिषं कृत्वा यो ददाति शतौदनाम् ॥
स्वर रहित पद पाठस: । तान् । लोकान् । सम् । आप्नोति । ये । दिव्या: । ये । च । पार्थिवा: । हिरण्यऽज्योतिषम् । कृत्वा । य: । ददाति । शतऽओदनाम् ॥९.६॥
अथर्ववेद - काण्ड » 10; सूक्त » 9; मन्त्र » 6
विषय - वेदवाणी की महिमा का उपदेश।
पदार्थ -
(सः) वह [मनुष्य] (तान्) उन (लोकान्) दर्शनीय लोगों [जनों] को (सम्) यथावत् [आप्नोति] पाता है, (ये) जो [लोग] (दिव्याः) व्यवहार जाननेवाले (च) और (ये) जो (पार्थिवाः) चक्रवर्ती राजा हैं। (यः) जो (शतौदनाम्) सैकड़ों प्रकार सींचनेवाली [वेदवाणी] को (हिरण्यज्योतिषम्) सुवर्ण [वा वीर्य अर्थात् पराक्रम] को प्रकाश करनेवाली (कृत्वा) करके (ददाति) दान करता है ॥६॥
भावार्थ - जो मनुष्य वेदद्वारा धनी और पराक्रमी होते हैं, वे व्यवहारकुशल और सार्वभौम राजा बनते हैं ॥६॥
टिप्पणी -
६−(सः) (तान्) प्रसिद्धान् (लोकान्) दर्शनीयान् जनान् (सम्) सम्यक् (आप्नोति) प्राप्नोति (ये) जनाः (दिव्याः) दिवु व्यवहारे-क्यप्। व्यवहारकुशलाः (ये) (च) (पार्थिवाः) सर्वभूमिपृथिवीभ्यामणञौ। पा० ५।१।४१। पृथिवी-अञ्। सार्वभौमाः। चक्रवर्तिनः (हिरण्यज्योतिषम्) हिरण्यस्य सुवर्णस्य वीर्यस्य पराक्रमस्य वा ज्योतिः प्रकाशो यया। ताम्। अन्यत् पूर्ववत् ॥