अथर्ववेद - काण्ड 10/ सूक्त 9/ मन्त्र 8
सूक्त - अथर्वा
देवता - शतौदना (गौः)
छन्दः - अनुष्टुप्
सूक्तम् - शतौदनागौ सूक्त
वस॑वस्त्वा दक्षिण॒त उ॑त्त॒रान्म॒रुत॑स्त्वा। आ॑दि॒त्याः प॒श्चाद्गो॑प्स्यन्ति॒ साग्नि॑ष्टो॒ममति॑ द्रव ॥
स्वर सहित पद पाठवस॑व: । त्वा॒ । द॒क्षि॒ण॒त: । उ॒त्त॒रात् । म॒रुत॑: । त्वा॒ । आ॒दि॒त्या: । प॒श्चात् । गो॒प्स्य॒न्ति॒ । सा । अ॒ग्नि॒ऽस्तो॒मम् । अति॑ । द्र॒व॒ ॥९.८॥
स्वर रहित मन्त्र
वसवस्त्वा दक्षिणत उत्तरान्मरुतस्त्वा। आदित्याः पश्चाद्गोप्स्यन्ति साग्निष्टोममति द्रव ॥
स्वर रहित पद पाठवसव: । त्वा । दक्षिणत: । उत्तरात् । मरुत: । त्वा । आदित्या: । पश्चात् । गोप्स्यन्ति । सा । अग्निऽस्तोमम् । अति । द्रव ॥९.८॥
अथर्ववेद - काण्ड » 10; सूक्त » 9; मन्त्र » 8
विषय - वेदवाणी की महिमा का उपदेश।
पदार्थ -
(वसवः) श्रेष्ठ पुरुष (त्वा) तुझको (दक्षिणतः) दाहिनी ओर से, (मरुतः) शूर पुरुष (त्वा) तुझको (उत्तरात्) ऊँचे वा बाएँ स्थान से, (आदित्याः) आदित्य [अखण्ड ब्रह्मचारी लोग] (पश्चात्) पीछे से (गोप्स्यन्ति) बचावेंगे, (सा) सो तू (अग्निष्टोमम्) सर्वव्यापक परमात्मा की स्तुति को (अति) अत्यन्त करके (द्रव) शीघ्र प्राप्त हो [ग्रहण कर] ॥८॥
भावार्थ - सब विद्वान् शूरवीर पुरुष वेद की रक्षा करें, जिससे ईश्वर के गुणों का अत्यन्त प्रकाश हो ॥८॥
टिप्पणी -
८−(वसवः) श्रेष्ठाः पुरुषाः (त्वा) (दक्षिणतः) दक्षिणहस्तस्थितदेशात् (उत्तरात्) उच्चस्थानात्। वामदेशात् (मरुतः) अ० १।२०।१। शूरवीराः (त्वा) (आदित्याः) अ० १।९।१। अ+दिति-ण्य। अखण्डव्रता ब्रह्मचारिणः (पश्चात्) (गोप्स्यन्ति) (सा) सा त्वम् (अग्निष्टोमम्) अग्नेः सर्वव्यापकस्य परमेश्वरस्य स्तुतिम् (अति) अत्यन्तम् (द्रव) शीघ्रं प्राप्नुहि ॥