अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 16
नमः॑ सा॒यं नमः॑ प्रा॒तर्नमो॒ रात्र्या॒ नमो॒ दिवा॑। भ॒वाय॑ च श॒र्वाय॑ चो॒भाभ्या॑मकरं॒ नमः॑ ॥
स्वर सहित पद पाठनम॑: । सा॒यम् । नम॑: । प्रा॒त: । नम॑: । रात्र्या॑ । नम॑: । दिवा॑ । भ॒वाय॑ । च॒ । श॒र्वाय॑ । च॒ । उ॒भाभ्या॑म् । अ॒क॒र॒म् । नम॑: ॥२.१६॥
स्वर रहित मन्त्र
नमः सायं नमः प्रातर्नमो रात्र्या नमो दिवा। भवाय च शर्वाय चोभाभ्यामकरं नमः ॥
स्वर रहित पद पाठनम: । सायम् । नम: । प्रात: । नम: । रात्र्या । नम: । दिवा । भवाय । च । शर्वाय । च । उभाभ्याम् । अकरम् । नम: ॥२.१६॥
अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 16
विषय - ब्रह्मज्ञान से उन्नति का उपदेश।
पदार्थ -
(सायम्) सायं काल में (नमः) नमस्कारः (प्रातः) प्रातः काल में (नमः) नमस्कार (रात्र्या) रात्रि में (नमः) नमस्कार (दिवा) दिन में (नमः) नमस्कार। (भवाय) भव [सुख उत्पन्न करनेवाले] (च च) और (शर्वाय) शर्व [दुःख नाश करनेवाले] (उभाभ्याम्) दोनों [गुणों] को (नमः अकरम्) मैंने नमस्कार किया है ॥१६॥
भावार्थ - मनुष्य प्रत्येक समय महाशक्तिमान् परमेश्वर का ध्यान करके सदा पराक्रम करता रहे ॥१६॥
टिप्पणी -
१६−(नमः) नमस्कारः (सायम्) सूर्यास्तसमये (प्रातः) प्रभातसमये (रात्र्या) रात्रिसमये (दिवा) दिनकाले (भवाय) म० ३। सुखोत्पादकाय (च च) समुच्चये (शर्वाय) म० ३। दुःखनाशकाय (उभाभ्याम्) द्वाभ्यां गुणाभ्याम् (अकरम्) अहं कृतवानस्मि। अन्यद् गतम् ॥