अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 9
सूक्त - अथर्वा
देवता - रुद्रः
छन्दः - आर्षी त्रिष्टुप्
सूक्तम् - रुद्र सूक्त
च॒तुर्नमो॑ अष्ट॒कृत्वो॑ भ॒वाय॒ दश॒ कृत्वः॑ पशुपते॒ नम॑स्ते। तवे॒मे पञ्च॑ प॒शवो॒ विभ॑क्ता॒ गावो॒ अश्वाः॒ पुरु॑षा अजा॒वयः॑ ॥
स्वर सहित पद पाठच॒तु: । नम॑: । अ॒ष्ट॒ऽकृत्व॑: । भ॒वाय॑ । दश॑ । कृत्व॑: । प॒शु॒ऽप॒ते॒ । नम॑: । ते॒ । तव॑ । इ॒मे । पञ्च॑ । प॒शव॑: । विऽभ॑क्ता: । गाव॑: । अश्वा॑: । पुरु॑षा । अ॒ज॒ऽअ॒वय॑: ॥२.९॥
स्वर रहित मन्त्र
चतुर्नमो अष्टकृत्वो भवाय दश कृत्वः पशुपते नमस्ते। तवेमे पञ्च पशवो विभक्ता गावो अश्वाः पुरुषा अजावयः ॥
स्वर रहित पद पाठचतु: । नम: । अष्टऽकृत्व: । भवाय । दश । कृत्व: । पशुऽपते । नम: । ते । तव । इमे । पञ्च । पशव: । विऽभक्ता: । गाव: । अश्वा: । पुरुषा । अजऽअवय: ॥२.९॥
अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 9
विषय - ब्रह्मज्ञान से उन्नति का उपदेश।
पदार्थ -
(भवाय) भव [सुखोत्पादक परमेश्वर] को (चतुः) चार बार, (अष्टकृत्वः) आठ बार (नमः) नमस्कार है, (पशुपते) हे दृष्टिवाले [जीवों] के रक्षक ! (ते) तुझे (दश कृत्वः) दस बार (नमः) नमस्कार है। (तव) तेरे ही (विभक्ताः) बाँटे हुए (इमे) यह (पञ्च) पाँच (पशवः) दृष्टिवाले [जीव] (गावः) गौवें, (अश्वाः) घोड़े, (पुरुषाः) पुरुष और (अजावयः) बकरी और भेड़ें हैं ॥९॥
भावार्थ -
मनुष्य परमेश्वर को चार बार [ब्रह्मचर्य, गृहस्थ, वानप्रस्थ और संन्यास चार आश्रमों का ध्यान करके], आठ बार [यम, नियम, आसन, प्राणायाम, प्रत्याहार, धारणा, ध्यान और समाधि, आठ योग के अङ्गों का आश्रय लेकर−योगदर्शन, पाद २ सूत्र २९] और दस बार [पाँच ज्ञानेन्द्रिय और पाँच कर्मेन्द्रिय को वश में करके] नमस्कार करे। परमेश्वर ही कर्मानुसार गौ आदि पदार्थों को मनुष्यों के लिये बाँटता है ॥९॥
टिप्पणी -
९−(चतुः) द्वित्रिचतुर्भ्यः सुच्। पा० ५।४।१८। इति सुच्। चतुर्वारम्। ब्रह्मचर्यगृहस्थवानप्रस्थसंन्यासाश्रमान् ध्यात्वा (नमः) नमस्कारः (अष्टकृत्वः) संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्। पा० ५।४।१०। इति कृत्वसुच्। अष्टवारम्। यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि−योगदर्शने, पा० २ सूत्रे २९-इत्येतानि आश्रित्य (भवाय) म० ३। सुखोत्पादकाय (दश कृत्वः) पूर्ववत् कृत्वसुच्, व्यवधानं छान्दसम्। दशवारम्। दशेन्द्रियाणि वशीकृत्वेति यावत् (पशुपते) (नमः) (ते) (तव) (इमे) समीपवर्तिनः (पशवः) दृष्टिमन्तो जीवाः (विभक्ताः) विभागं प्राप्ताः (गावः) धेनवः (अश्वाः) तुरङ्गाः (पुरुषाः) मनुष्याः (अजावयः) अजाश्च अवयश्च ते छागमेषाः ॥