अथर्ववेद - काण्ड 8/ सूक्त 9/ मन्त्र 14
सूक्त - अथर्वा
देवता - कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः
छन्दः - चतुष्पदातिजगती
सूक्तम् - विराट् सूक्त
अ॒ग्नीषोमा॑वदधु॒र्या तु॒रीयासी॑द्य॒ज्ञस्य॑ प॒क्षावृष॑यः क॒ल्पय॑न्तः। गा॑य॒त्रीं त्रि॒ष्टुभं॒ जग॑तीमनु॒ष्टुभं॑ बृहद॒र्कीं यज॑मानाय॒ स्वरा॒भर॑न्तीम् ॥
स्वर सहित पद पाठअ॒ग्नीषोमौ॑ । अ॒द॒धु॒: । या । तु॒रीया॑ । आसी॑त् । य॒ज्ञस्य॑ । प॒क्षौ । ऋष॑य: । क॒ल्पय॑न्त: । गा॒य॒त्रीम् । त्रि॒ऽस्तुभ॑म् । जग॑तीम् । अ॒नु॒ऽस्तुभ॑म् । बृ॒ह॒त्ऽअ॒र्कीम् । यज॑मानाय । स्व᳡: । आ॒ऽभर॑न्तीम्॥९.१४॥
स्वर रहित मन्त्र
अग्नीषोमावदधुर्या तुरीयासीद्यज्ञस्य पक्षावृषयः कल्पयन्तः। गायत्रीं त्रिष्टुभं जगतीमनुष्टुभं बृहदर्कीं यजमानाय स्वराभरन्तीम् ॥
स्वर रहित पद पाठअग्नीषोमौ । अदधु: । या । तुरीया । आसीत् । यज्ञस्य । पक्षौ । ऋषय: । कल्पयन्त: । गायत्रीम् । त्रिऽस्तुभम् । जगतीम् । अनुऽस्तुभम् । बृहत्ऽअर्कीम् । यजमानाय । स्व: । आऽभरन्तीम्॥९.१४॥
अथर्ववेद - काण्ड » 8; सूक्त » 9; मन्त्र » 14
विषय - ब्रह्म विद्या का उपदेश।
पदार्थ -
(यज्ञस्य) यज्ञ [रसों के संयोग-वियोग] के (पक्षौ) ग्रहण करनेवाले (अग्नीषोमौ) सूर्य और चन्द्रमा [के समान] (ऋषयः) ऋषि लोगों ने, (या) जो [वेदवाणी] (तुरीया) वेगवती वा ब्रह्म की [जो सत्व, रज और तम तीन गुणों से परे चौथा है] (आसीत्) थी, (यजमानाय) यजमान के लिये (स्वः) मोक्ष सुख (आभरन्तीम्) भर देनेवाली [उस] (गायत्रीम्) गाने योग्य, (त्रिष्टुभम्) [कर्म, उपासना और ज्ञान इन] तीन से पूजी गयी, (जगतीम्) प्राप्तियोग्य, (बृहदर्कीम्) बड़े सत्कारवाली (अनुष्टुभम्) निरन्तर स्तुतियोग्य [विराट् वा वेदवाणी] को (कल्पयन्तः) समर्थन करते हुए (अदधुः) धारण किया है ॥१४॥
भावार्थ - जिस प्रकार ऋषि महात्माओं ने यथावत् नियम पर चलकर वेदवाणी को ग्रहण किया है, उसी प्रकार सब मनुष्य वेदवाणी को स्वीकार कर के मोक्षपद प्राप्त करें ॥१४॥
टिप्पणी -
१४−(अग्नीषोमौ) सूर्यचन्द्रौ यथा (अदधुः) धारितवन्तः (या) अनुष्टुप् वाक् (तुरीया) घच्छौ च। पा० ४।४।११७। तुर−छः, तत्र भव इत्यर्थे। तुरे वेगे भवा। वेगवती। यद्वा चतुरश्छयतावाद्यक्षरलोपश्च। वा० पा० ५।२।५१। चतुर्-छ, चलोपः। सत्त्वरजस्तमोगुणत्रयपरं तुरीयं चतुर्थं ब्रह्म। अर्शआदिभ्योऽच्। पा० ५।२।१२७। तुरीय-अच्, टाप्। ब्रह्मसम्बन्धिनी (आसीत्) (यज्ञस्य) रसानां संयोगवियोगस्य (पक्षौ) ग्रहीतारौ (ऋषयः) मुनयः (कल्पयन्तः) कृपू सामर्थ्ये-णिचि-शतृ। समर्थयन्तः (गायत्रीम्) अ० ३।३।२। अभिनक्षियजिवधिपतिभ्योऽत्रन्। उ० ३।१०५। गै गाने-अत्रन्, ङीप्। गायत्री गायतेः स्तुतिकर्मणः-निरु० ७।१२। गानयोग्याम् (त्रिष्टुभम्) अ० ६।४८।३। त्रि+ष्टुभ पूजायाम्-क्विप्। स्तोभतिरर्चतिकर्मा-निघ० ३।१४। त्रिष्टुप् स्तोभत्युत्तरपदा, का तु त्रिता स्यात् तीर्णतमं छन्दस्त्रिवृद्वज्रस्तस्य स्तोभतीति वा, यत् त्रिरस्तोभत् तत् त्रिष्टुभस्त्रिष्टुप्त्वमिति विज्ञायते-निरु० ७।१२। त्रिभिः कर्मोपासनाज्ञानैः पूजिता (जगतीम्) वर्तमाने पृषद्बृहन्महज्जगच्छतृवच्च। उ० २।८४। गम्लृ गतौ-अति, ङीप्। जगती गोनाम-निघ० २।११। जगती गततमं छन्दो जलचरगतिर्वा जलगल्यमानोऽसृजदिति च ब्राह्मणम्-निघ० ७।१३। गम्यमानाम्। प्राप्तव्याम् (अनुष्टुभम्) अनु+ष्टुभ्-क्विप्। स्तोभतिरर्चतिकर्मा-निघ० ३।१४। अनुष्टुबनुष्टोभनात्-निरु० ७।१२। वाचम्-निघ० १।११। निरन्तरस्तुत्यां विराजं वेदवाचां वा (बृहदर्कीम्) बहुपूजावतीम् (यजमानाय) याजकाय (स्वः) मोक्षसुखम् (आभरन्ताम्) समन्तात् पोषयन्तीम् ॥