अथर्ववेद - काण्ड 8/ सूक्त 9/ मन्त्र 15
सूक्त - अथर्वा
देवता - कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः
छन्दः - त्रिष्टुप्
सूक्तम् - विराट् सूक्त
पञ्च॒ व्युष्टी॒रनु॒ पञ्च॒ दोहा॒ गां पञ्च॑नाम्नीमृ॒तवोऽनु॒ पञ्च॑। पञ्च॒ दिशः॑ पञ्चद॒शेन॒ क्लृप्तास्ता एक॑मूर्ध्नीर॒भि लो॒कमेक॑म् ॥
स्वर सहित पद पाठपञ्च॑ । विऽउ॑ष्टी: । अनु॑ । पञ्च॑ । दोहा॑: । गाम् । पञ्च॑ऽनाम्नीम् । ऋ॒तव॑: । अनु॑ । पञ्च॑ । पञ्च॑ । दिश॑: । प॒ञ्च॒ऽद॒शेन॑ । क्लृ॒प्ता: । ता: । एक॑ऽमूर्ध्नी: । अ॒भि । लो॒कम् । एक॑म् ॥९.१५॥
स्वर रहित मन्त्र
पञ्च व्युष्टीरनु पञ्च दोहा गां पञ्चनाम्नीमृतवोऽनु पञ्च। पञ्च दिशः पञ्चदशेन क्लृप्तास्ता एकमूर्ध्नीरभि लोकमेकम् ॥
स्वर रहित पद पाठपञ्च । विऽउष्टी: । अनु । पञ्च । दोहा: । गाम् । पञ्चऽनाम्नीम् । ऋतव: । अनु । पञ्च । पञ्च । दिश: । पञ्चऽदशेन । क्लृप्ता: । ता: । एकऽमूर्ध्नी: । अभि । लोकम् । एकम् ॥९.१५॥
अथर्ववेद - काण्ड » 8; सूक्त » 9; मन्त्र » 15
विषय - ब्रह्म विद्या का उपदेश।
पदार्थ -
(पञ्च) पाँच (व्युष्टीः) विविध प्रकार वास करनेवाली [तन्मात्राओं] के (अनु) साथ-साथ (पञ्च) पाँच [पृथिवी आदि पाँच भूत सम्बन्धी] (दोहाः) पूर्तिवाले पदार्थ हैं, (पञ्चनाम्नीम्) पूर्व आदि पाँच नामवाली, यद्वा पाँच ओर झुकनेवाली (गाम् अनु) दिशा के साथ-साथ (पञ्च) पाँच, (ऋतवः) ऋतुएँ हैं [अर्थात् शरद्, हेमन्त, शिशिर सहित, वसन्त, ग्रीष्म और वर्षा]। (पञ्च) पाँच [पूर्वादि चार और एक ऊपरवाली] (दिशः) दिशाएँ (पञ्चदशेन) [पाँच प्राण अर्थात् प्राण, अपान, व्यान, समान और उदान+पाँच इन्द्रिय अर्थात् श्रोत्र, त्वचा, नेत्र, रसना, और घ्राण+पाँच भूत अर्थात् भूमि, जल, अग्नि, वायु और आकाश इन] पन्द्रह पदार्थवाले जीवात्मा के साथ (क्लृप्ताः) समर्थ की गई हैं, (ताः) वे (एकमूर्ध्नीः) एक [परमेश्वर रूप] मस्तकवाली [दिशायें] (एकम्) एक (लोकम् अभि) देश की ओर [वर्तमान हैं] ॥१५॥
भावार्थ - उसी परमात्मा की शक्ति से पञ्चभूत, ऋतुएँ और दिशाएँ आदि जीवों के सुख के लिये उत्पन्न हुए हैं ॥१५॥ पाँच ऋतुओं के लिये देखो-अ० ८।२।२२ और निरु० ४।२७ ॥
टिप्पणी -
१५−(पञ्च) पञ्चसंख्याकाः (व्युष्टीः) म० १०। वि+वस निवासे-क्तिन्। विविधनिवासशीलाः। तन्मात्राः (अनु) अनुसृत्य (पञ्च) पृथिव्यादिपञ्चभूतसम्बन्धिनः (दोहाः) पूरिताः पदार्थाः (गाम्) दिशाम् (पञ्चनाम्नीम्) पूर्वादिचतस्र उच्चस्था चैका, ताभिः सह नामयुक्ताम्। यद्वा पञ्चदिक्षु नमनशीलाम् (ऋतवः) वसन्तादयः (अनु) अनुलक्ष्य (पञ्च) अ० ८।२।२२। पञ्चर्तवः.... हेमन्तशिशिरयोः समासेन-निरु० ४।२७। (पञ्च) पूर्वादिचतस्र उच्चस्था चैका (दिशः) आशाः (पञ्चदशेन) संख्ययाऽव्ययासन्नादूराधिकसंख्याः संख्येये। पा० २।२।२५। इति पञ्चाधिका दश यत्र स पञ्चदशः। बहुव्रीहौ संख्येये डजबहुगणात्। पा० ५।४।७३। पञ्चदशन्-डच्। पञ्चप्राणेन्द्रियभूतानि यस्मिन् तेन जीवात्मना (क्लृप्ताः) समर्थिताः (एकमूर्ध्नीः) श्वन्नुक्षन्पूषन्। उ० १।१५९। मुर्वी बन्धने-कनिन्। एकः परमेश्वरो मूर्धरूपो यासां ता दिशाः (अभि) अभिलक्ष्य (लोकम्) देशम् (एकम्) ॥