अथर्ववेद - काण्ड 8/ सूक्त 9/ मन्त्र 12
सूक्त - अथर्वा
देवता - कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः
छन्दः - जगती
सूक्तम् - विराट् सूक्त
छन्दः॑पक्षे उ॒षसा॒ पेपि॑शाने समा॒नं योनि॒मनु॒ सं च॑रेते। सूर्य॑पत्नी॒ सं च॑रतः प्रजान॒ती के॑तु॒मती॑ अ॒जरे॒ भूरि॑रेतसा ॥
स्वर सहित पद पाठछन्द॑:पक्षे॒ इति॒ छन्द॑:ऽपक्षे । उ॒षसा॑ । पेपि॑शाने॒ इति॑ ।स॒मा॒नम् । योनि॑म् । अनु॑ । सम् । च॒रे॒ते॒ इति॑ । सूर्य॑पत्नी॒ इति॒ सूर्य॑ऽपत्नी । सम् । च॒र॒त॒: । प्र॒जा॒न॒ती इति॑ प्र॒ऽजा॒न॒ती । के॒तु॒मती॒ इति॑ के॒तु॒ऽमती॑ । अ॒जरे॒ इति॑ । भूरि॑ऽरेतसा ॥९.१२॥
स्वर रहित मन्त्र
छन्दःपक्षे उषसा पेपिशाने समानं योनिमनु सं चरेते। सूर्यपत्नी सं चरतः प्रजानती केतुमती अजरे भूरिरेतसा ॥
स्वर रहित पद पाठछन्द:पक्षे इति छन्द:ऽपक्षे । उषसा । पेपिशाने इति ।समानम् । योनिम् । अनु । सम् । चरेते इति । सूर्यपत्नी इति सूर्यऽपत्नी । सम् । चरत: । प्रजानती इति प्रऽजानती । केतुमती इति केतुऽमती । अजरे इति । भूरिऽरेतसा ॥९.१२॥
अथर्ववेद - काण्ड » 8; सूक्त » 9; मन्त्र » 12
विषय - ब्रह्म विद्या का उपदेश।
पदार्थ -
(उषसा) उषा [प्रभात वेला] के साथ (पेपिशाने) अत्यन्त सुवर्ण वा रूप करती हुई, (छन्दःपक्षे) स्वतन्त्रता का ग्रहण करती हुईं दोनों (समानम्) एक (योनिम् अनु) घर [परमेश्वर] के पीछे-पीछे (सम् चरेते) मिलकर चलती हैं। (प्रजानती) [मार्ग] जानती हुई, (केतुमती) झण्डा रखती हुई [जैसे], (अजरे) शीघ्र चलनेवाली, (भूरिरेतसा) बड़ी सामर्थ्यवाली, (सूर्यपत्नी) सूर्य की दोनों पत्नियाँ [रात्रि और प्रभातवेलायें] (सम् चरतः) मिलकर विचरती हैं ॥१२॥
भावार्थ - उसी विराट् की महिमा से रात्रि और दिन विविध प्रकार संसार का उपकार करते हैं ॥१२॥
टिप्पणी -
१२−(छन्दःपक्षे) छदि संवरणे-असुन्+पक्ष परिग्रहे-अच्। स्वेच्छया ग्रहीत्र्यौ (उषसा) प्रभातवेलया सह (पेपिशाने) ताच्छील्यवयोवचनशक्तिषु चानश्। पा० ३।३।१२९। पिश अवयवे प्रकाशे-च। यङ्लुकि-चानश्। पेशो हिरण्यनाम-निघ० १।२, रूपनाम-निघ० ३।७। अत्यन्तं पेशो हिरण्यं रूपं वा कुर्वाणे (समानम्) सामान्यम् (योनिम्) गृहम्। परमेश्वरम् (अनु) अनुसृत्य (सम् चरेते) समस्तृतीयायुक्तात्। पा० १।३।५४। आत्मनेपदम्। मिलित्वा चरतः (सूर्यपत्नी) सूर्यस्य पत्न्यौ यथा रात्रिप्रभातवेले (सम्) सम्यक् (चरतः) विचरतः (प्रजानती) मार्गं ज्ञात्र्यौ (केतुमती) पताकावत्यौ तथा (अजरे) अजराः क्षिप्रनाम-निघ० २।१५। क्षिप्रगामिन्यौ (भूरिरेतसा) बहुवीर्यवत्यौ ॥