अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 5
सूक्त - अथर्वा
देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - ओषधि समूह सूक्त
यद्वः॒ सहः॑ सहमाना वी॒र्यं यच्च॑ वो॒ बल॑म्। तेने॒मम॒स्माद्यक्ष्मा॒त्पुरु॑षं मुञ्चतौषधी॒रथो॑ कृणोमि भेष॒जम् ॥
स्वर सहित पद पाठयत् । व॒: । सह॑: । स॒ह॒मा॒ना॒: । वी॒र्य᳡म् । यत् । च॒ । व॒: । बल॑म् । तेन॑ । इ॒मम् । अ॒स्मात् । यक्ष्मा॑त् । पुरु॑षम् । मु॒ञ्च॒त॒ । ओ॒ष॒धी॒: । अथो॒ इति॑ । कृ॒णो॒मि॒ । भे॒ष॒जम् ॥७.५॥
स्वर रहित मन्त्र
यद्वः सहः सहमाना वीर्यं यच्च वो बलम्। तेनेममस्माद्यक्ष्मात्पुरुषं मुञ्चतौषधीरथो कृणोमि भेषजम् ॥
स्वर रहित पद पाठयत् । व: । सह: । सहमाना: । वीर्यम् । यत् । च । व: । बलम् । तेन । इमम् । अस्मात् । यक्ष्मात् । पुरुषम् । मुञ्चत । ओषधी: । अथो इति । कृणोमि । भेषजम् ॥७.५॥
अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 5
Subject - Health and Herbs
Meaning -
O powerful and victorious herbs, whatever the power, vigour and potency that’s yours, with that, pray, cure this patient of this consumptive ailment. And here I administer the medication.