Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 1/ मन्त्र 17
    ऋषिः - परमेष्ठी प्रजापतिर्ऋषिः देवता - अग्निर्देवता छन्दः - निचृत् ब्राह्मी पङ्क्ति, स्वरः - पञ्चमः
    23

    धृष्टि॑र॒स्यपा॑ऽग्नेऽअ॒ग्निमा॒मादं॑ जहि॒ निष्क्र॒व्याद॑ꣳ से॒धा दे॑व॒यजं॑ वह। ध्रु॒वम॑सि पृथि॒वीं दृ॑ꣳह ब्रह्म॒वनि॑ त्वा क्षत्र॒वनि॑ सजात॒वन्युप॑दधामि॒ भ्रातृ॑व्यस्य व॒धाय॑॥१७॥

    स्वर सहित पद पाठ

    धृष्टिः। अ॒सि। अप॑। अ॒ग्ने॒। अ॒ग्निम्। आ॒माद॒मित्या॑मऽअद॑म्। ज॒हि॒। निष्क्र॒व्याद॒मिति निष्क्रव्य॒ऽअद॑म्। सेध॒। आ। दे॒व॒यज॒मिति। देव॒ऽयज॑म्। व॒ह॒। ध्रु॒वम्। अ॒सि॒। पृ॒थिवी॑म्। दृ॒ꣳह॒। ब्र॒ह्म॒वनीति ब्रह्म॒ऽवनि॑। त्वा॒। क्ष॒त्र॒वनीति॑ क्षत्र॒ऽवनि॑। स॒जा॒त॒वनीति॑ सजात॒ऽवनि॑। उप॑ऽद॒धा॒मि॒। भ्रातृ॑व्यस्य व॒धाय॑ ॥१७॥


    स्वर रहित मन्त्र

    धृष्टिरस्यपाग्नेऽअग्निमामादञ्जहि निष्क्रव्यादँ सेधा आ देवयजँ वह । धु्रवमसि पृथिवीन्दृँह ब्रह्मवनि त्वा क्षत्रवनि सजातवन्युप दधामि भ्रातृव्यस्य बधाय ॥


    स्वर रहित पद पाठ

    धृष्टिः। असि। अप। अग्ने। अग्निम्। आमादमित्यामऽअदम्। जहि। निष्क्रव्यादमिति निष्क्रव्यऽअदम्। सेध। आ। देवयजमिति। देवऽयजम्। वह। ध्रुवम्। असि। पृथिवीम्। दृꣳह। ब्रह्मवनीति ब्रह्मऽवनि। त्वा। क्षत्रवनीति क्षत्रऽवनि। सजातवनीति सजातऽवनि। उपऽदधामि। भ्रातृव्यस्य वधाय॥१७॥

    यजुर्वेद - अध्याय » 1; मन्त्र » 17
    Acknowledgment

    सपदार्थान्वयः -

    हे अग्ने=परमेश्वर ! परमेश्वर धनुर्वेदविद्वन्वा! त्वं धृष्टिः प्रगल्भ इव यजमानः असि भवसि, अतो निष्क्रव्यादं क्रव्यं=पक्वमांसमत्ति तस्मान्निर्गतस्तम् आमादम् आमानपक्वानत्ति तं देवयजं देवान्=विदुषो दिव्यगुणान् यजति=संगतान् करोति येन यज्ञेन स देवयट् तम् अग्निं विद्युदाख्यं सेध शस्त्राणि शिक्षय। एवं मंगलाय शास्त्राणि शिक्षित्वा दुःखमपजहि हिंसय, सुखं च आवह प्रापय।

    तथा--हे परमेश्वर ! त्वं ध्रुवं निश्चलं सुखम् असि, अतः पृथिवीं विस्तृतां भूमिं तत्स्थान्प्राणिनश्च दृंह उत्तमगुणैर्वर्धय।

    हे जगदीश्वराऽग्ने! परमेश्वर धनुर्वेदविद्वन्वा! यत् ईदृशो भवान्, तस्मादहं भ्रातृव्यस्य द्विषतः=शत्रो: वधाय नाशाय=हननाय ब्रह्मवनि ब्राह्मणम्=विद्वांसं वनति तं, क्षत्रवनि क्षत्रं=संभाजिनं वनति तं सजातवनि जातं जातं वनति स जातवनिः, समानश्चासौ जातवनिस्तं, त्वा=त्वां उपदधामि हृदये धारयामि। इत्येकोऽन्वयः

    द्वितीयान्वयमाह--हे यजमान विद्वन् ! यतोऽयमग्निर्घृष्टिः प्रगल्भ इव यजमानो असि भवति, तथा चाऽऽमान्निष्क्रव्याद्देवयजं देवान्=विदुषो दिव्यगुणान् यजति=संगतान् करोति येन यज्ञेन स देवयट् तं यज्ञमावहति, तस्मात् त्वमिममामादम् आमान्=अपक्वानत्ति तं निष्क्रव्यादं क्रव्यं=पक्वमांसमत्ति तस्मान्निर्गतस्तं देवयजं देवान्=विदुषो दिव्यगुणान् यजति=संगतान् करोति येन यज्ञेन स देवयट् तम् अग्निं विद्युदाख्यम् आवह प्रापय, सेध=अन्येभ्यस्तमेवं शिक्षय, तदनुष्ठानेन दोषानयजहि हिंसय।

    यतोऽयमग्निः सूर्यरूपेण [ध्रुवम्]=ध्रुवोऽसि=अस्ति भवति, तस्मादयमाकर्षणेन पृथिवीं विस्तृतां भूमिं तत्स्थान्प्राणिनश्च दंह=दहति धरति उत्तमगुणैर्वर्धयति, तस्मात्तमहं ब्रह्मवनिं ब्राह्मणं=विद्वांसं वनति तं क्षत्रवनिं क्षत्रं=संभाजिनं वनति तं सजातवनिं जातं जातं वनति स जातवनिः, समानश्चासौ जातवनिस्तं भ्रातृव्यस्य द्विषतः=शत्रोः वधाय नाशाय=हननाय उपदधामि वेद्यां विमानादिषु वा धारयामि। इति द्वितीयः॥ १। १७॥

    पदार्थः -

    (धृष्टिः) प्रगल्भ इव यजमानः (असि) भवसि भवति वा। अत्र पक्षे व्यत्ययः (अप) क्रियायोगे (अग्ने) परमेश्वर धनुर्वेदविद्वान्वा (अग्निम्) विद्युदाख्यम् (आमादम्) आमानपक्वानत्ति तम् (जहि) हिंसय (निष्क्रव्यादम्) क्रव्यं=पक्वमांसमत्ति तस्मान्निर्गतस्तम् (सेध) शास्त्राणि शिक्षय (आ) क्रियायोगे (देवयजम्) देवान्=विदुषो दिव्यगुणान् यजति=संगतान् करोति येन यज्ञेन स देवयट् तम्। अत्र अन्येभ्योऽपि दृश्यन्त इति सूत्रेण कृतो बहुलमिति वार्त्तिकेन करणे विच् प्रत्ययः (वह) प्रापय प्रापयति वा। अत्र सर्वत्र पक्षे व्यत्ययः (ध्रुवम् ) निश्चलं सुखम् (असि) भवति (पृथिवीम्) विस्तृतां भूमिं तत्स्थान्प्राणिनश्च (दृंह) उत्तमगुणैर्वर्धय वर्धयति वा (ब्रह्मवनि) ब्राह्मणं=विद्वांसं वनति तम्। छन्दसि वनसन रक्षिमथाम्॥ अ० ३। २। २७॥ अनेन ब्रह्मोपपदे वनधातोरिन्प्रत्ययः। सुपां=सुलुगित्यमो लुक् च (त्वा) त्वां तं वा (क्षत्रवनि) क्षत्रं=संभाजिनं वनति तम्। अत्राप्यमो लुक् (सजातवनि) जातं जातं वनति स जातवनिः समानश्चासौ जातवनिस्तम्। समानस्य छन्दस्य मूर्द्धप्रभृत्युदर्केषु॥ अ॰ ६। ३। ८४॥ अनेन समानस्य सकारादेशः (उपदधामि) हृदये वेद्यां विमानादियानेषु वा धारयामि (भ्रातृव्यस्य) द्विषतः शत्रोः (बधाय) नाशाय=हननाय॥ अयं मंत्रः श०१।१।५। ३-८ व्याख्यातः॥१७॥

    भावार्थः -

    [ हे अग्ने=परमेश्वर! निष्क्रव्यादमामादं देवयजमग्निं सेध]

    अत्र श्लेषालङ्कारः॥ सर्वशक्तिमतेश्वरेण यतोऽयमामाद्= दाहकस्वभावोऽग्नी रचितस्ततो नायं भस्मादिकं दग्धुं समर्थो भवति, येनामान् पदार्थान् पक्त्वाऽदन्ति, येनोदरस्थमन्नं पच्यते, (स आमात्) येन च मनुष्या मृतं देहं दहन्ति स क्रव्यात्संज्ञोऽग्निः।

    येनायं दिव्यगुणप्रापको विद्युदाख्यश्च रचितः,

    [ अयमग्निः.....पृथिवीं दृंह=दृंहति=धरति]

     तथा येन पृथिवीधारणाकर्षणप्रकाशकः सूर्यो रचितः,

    [ ब्रह्मवनिं क्षत्रवनिं सजातवनिं त्वा=त्वामुपदधामि]

    यश्च ब्रह्मभिः=वेदविद्भिर्ब्राह्मणैः क्षत्रियैः समानजन्मभिर्मनुष्यैश्च वन्यते=संसेव्यते,

    तथा-यः सर्वेषु जातेषु पदार्थेषु वर्तमानः परमेश्वरो भौतिकोऽग्निर्वा, स एव सर्वैरुपास्यो भौतिकश्च क्रियासिद्ध्यर्थं सेवनीय इति॥१।१७॥

    भावार्थ पदार्थः -

    निष्क्रव्यादम्=न भस्मादिकं दग्धुं समर्थम्। आमादम्=दाहकस्वभावम्, येनामान् पदार्थान् पक्त्वाऽदन्ति तम्। देवयजम्=दिव्य गुणप्रापकम्। ब्रह्मवनिम्=यो ब्रह्मभिः=वेदविद्भिर्ब्राह्मणैः वन्यते= संसेव्यते तम्। क्षत्रवनिम्=यः क्षत्रियैर्वन्यते=संसेव्यते तम्। सजातवनिम्=यः समानजन्मभिर्मनुष्यै- र्वन्यते=संसेव्यते तम्।

    विशेषः -

    परमेष्ठी प्रजापतिः। अग्निः=परमेश्वरो भौतिकोऽग्निश्च॥ निचृद् ब्राह्मी पंक्तिः। पंचमः स्वरः॥

    इस भाष्य को एडिट करें
    Top