अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 3
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - त्रिष्टुप्
सूक्तम् - सर्वाधारवर्णन सूक्त
कस्मि॒न्नङ्गे॑ तिष्ठति॒ भूमि॑रस्य॒ कस्मि॒न्नङ्गे॑ तिष्ठत्य॒न्तरि॑क्षम्। कस्मि॒न्नङ्गे॑ तिष्ठ॒त्याहि॑ता॒ द्यौः कस्मि॒न्नङ्गे॑ तिष्ठ॒त्युत्त॑रं दि॒वः ॥
स्वर सहित पद पाठकस्मि॑न् । अङ्गे॑ । ति॒ष्ठ॒ति॒ । भूमि॑: । अ॒स्य॒ । कस्मि॑न् । अङ्गे॑ । ति॒ष्ठ॒ति॒ । अ॒न्तरि॑क्षम् । कस्मि॑न् । अङ्गे॑ । ति॒ष्ठ॒ति॒ । आऽहि॑ता । द्यौ: । कस्मि॑न् । अङ्गे॑ । ति॒ष्ठ॒ति॒ । उत्ऽत॑रम् । दि॒व: ॥७.३॥
स्वर रहित मन्त्र
कस्मिन्नङ्गे तिष्ठति भूमिरस्य कस्मिन्नङ्गे तिष्ठत्यन्तरिक्षम्। कस्मिन्नङ्गे तिष्ठत्याहिता द्यौः कस्मिन्नङ्गे तिष्ठत्युत्तरं दिवः ॥
स्वर रहित पद पाठकस्मिन् । अङ्गे । तिष्ठति । भूमि: । अस्य । कस्मिन् । अङ्गे । तिष्ठति । अन्तरिक्षम् । कस्मिन् । अङ्गे । तिष्ठति । आऽहिता । द्यौ: । कस्मिन् । अङ्गे । तिष्ठति । उत्ऽतरम् । दिव: ॥७.३॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 3
Translation -
In which part of him the earth (bhūmih) is situated; in which part is situated the midspace (antariksa); in which part (of him) the sky (dyauh) rests well set; in which part is situated that which is above even the sky (uttaram-divah) ?