अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 5
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - अनुष्टुप्
सूक्तम् - सर्वाधारवर्णन सूक्त
क्वार्धमा॒साः क्व यन्ति॒ मासाः॑ संवत्स॒रेण॑ स॒ह सं॑विदा॒नाः। यत्र॒ यन्त्यृ॒तवो॒ यत्रा॑र्त॒वाः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
स्वर सहित पद पाठक्व᳡ । अ॒र्ध॒ऽमा॒सा: । क्व᳡ । य॒न्ति॒ । मासा॑: । स॒म्ऽव॒त्स॒रेण॑ । स॒ह । स॒म्ऽवि॒दा॒ना: । यत्र॑ । यन्ति॑ । ऋ॒तव॑: । यत्र॑ । आ॒र्त॒वा: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.५॥
स्वर रहित मन्त्र
क्वार्धमासाः क्व यन्ति मासाः संवत्सरेण सह संविदानाः। यत्र यन्त्यृतवो यत्रार्तवाः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥
स्वर रहित पद पाठक्व । अर्धऽमासा: । क्व । यन्ति । मासा: । सम्ऽवत्सरेण । सह । सम्ऽविदाना: । यत्र । यन्ति । ऋतव: । यत्र । आर्तवा: । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.५॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 5
Translation -
Whither go the half-months, whereto the months and also the year; whither go the seasons and the supplementary seasons; tell me of that Skambha; which of so many indeed, is He ?