Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 9
    सूक्त - अथर्वा, क्षुद्रः देवता - स्कन्धः, आत्मा छन्दः - त्रिष्टुप् सूक्तम् - सर्वाधारवर्णन सूक्त

    किय॑ता स्क॒म्भः प्र वि॑वेश भू॒तं किय॑द्भवि॒ष्यद॒न्वाश॑येऽस्य। एकं॒ यदङ्ग॒मकृ॑णोत्सहस्र॒धा किय॑ता स्क॒म्भः प्र वि॑वेश॒ तत्र॑ ॥

    स्वर सहित पद पाठ

    किय॑ता । स्क॒म्भ: । प्र । वि॒वे॒श॒ । भू॒तम् । किय॑त् । भ॒वि॒ष्यत् । अ॒नु॒ऽआश॑ये । अ॒स्य॒ । एक॑म् । यत् । अङ्ग॑म् । अकृ॑णोत् । स॒ह॒स्र॒ऽधा । किय॑ता । स्क॒म्भ: । प्र । वि॒वे॒श॒ । तत्र॑ ॥७.९॥


    स्वर रहित मन्त्र

    कियता स्कम्भः प्र विवेश भूतं कियद्भविष्यदन्वाशयेऽस्य। एकं यदङ्गमकृणोत्सहस्रधा कियता स्कम्भः प्र विवेश तत्र ॥

    स्वर रहित पद पाठ

    कियता । स्कम्भ: । प्र । विवेश । भूतम् । कियत् । भविष्यत् । अनुऽआशये । अस्य । एकम् । यत् । अङ्गम् । अकृणोत् । सहस्रऽधा । कियता । स्कम्भ: । प्र । विवेश । तत्र ॥७.९॥

    अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 9

    Translation -
    How much the Skambha has entered the past ? And how much will he enter the future ? One part of him that He has turned into thousands, how much the Skambha has entered therein ?

    इस भाष्य को एडिट करें
    Top