अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 13
यो अ॑स्य॒ स्याद्व॑शाभो॒गो अ॒न्यामि॑च्छेत॒ तर्हि॒ सः। हिंस्ते॒ अद॑त्ता॒ पुरु॑षं याचि॒तां च॒ न दित्स॑ति ॥
स्वर सहित पद पाठय: । अ॒स्य॒ । स्यात् । व॒शा॒ऽभो॒ग: । अ॒न्याम् । इ॒च्छे॒त॒ । तर्हि॑ । स: । हिंस्ते॑ । अद॑त्ता । पुरु॑षम् । या॒चि॒ताम् । च॒ । न । दित्स॑ति ॥४.१३॥
स्वर रहित मन्त्र
यो अस्य स्याद्वशाभोगो अन्यामिच्छेत तर्हि सः। हिंस्ते अदत्ता पुरुषं याचितां च न दित्सति ॥
स्वर रहित पद पाठय: । अस्य । स्यात् । वशाऽभोग: । अन्याम् । इच्छेत । तर्हि । स: । हिंस्ते । अदत्ता । पुरुषम् । याचिताम् । च । न । दित्सति ॥४.१३॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 13
Translation -
Whatever may be his use for the cow, he should then seek another; she ungiven, harms a man, if he is not willing to give her when asked for.