अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 25
अ॑नप॒त्यमल्प॑पशुं व॒शा कृ॑णोति॒ पूरु॑षम्। ब्रा॑ह्म॒णैश्च॑ याचि॒तामथै॑नां निप्रिया॒यते॑ ॥
स्वर सहित पद पाठअ॒न॒प॒त्यम् । अल्प॑ऽपशुम् । व॒शा । कृ॒णो॒ति॒ । पुरु॑षम् । ब्रा॒ह्म॒णै: । च॒ । या॒चि॒ताम् । अथ॑ । ए॒ना॒म् । नि॒ऽप्रि॒य॒यते॑ ॥४.२५॥
स्वर रहित मन्त्र
अनपत्यमल्पपशुं वशा कृणोति पूरुषम्। ब्राह्मणैश्च याचितामथैनां निप्रियायते ॥
स्वर रहित पद पाठअनपत्यम् । अल्पऽपशुम् । वशा । कृणोति । पुरुषम् । ब्राह्मणै: । च । याचिताम् । अथ । एनाम् । निऽप्रिययते ॥४.२५॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 25
Translation -
The cow makes a man destitute of descendants, poor in cattle, if when she is asked for by the Brahmans, then he keeps her to himself.