अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 40
प्रि॒यं प॑शू॒नां भ॑वति॒ यद्ब्र॒ह्मभ्यः॑ प्रदी॒यते॑। अथो॑ व॒शाया॒स्तत्प्रि॒यं यद्दे॑व॒त्रा ह॒विः स्यात् ॥
स्वर सहित पद पाठप्रि॒यम् । प॒शू॒नाम् । भ॒व॒ति॒ । यत् । ब्र॒ह्मऽभ्य॑: । प्र॒ऽदी॒यते॑ । अथो॒ इति॑ । व॒शाया॑: । तत् । प्रि॒यम् । यत् । दे॒व॒ऽत्रा । ह॒वि: । स्यात् ॥४.४०॥
स्वर रहित मन्त्र
प्रियं पशूनां भवति यद्ब्रह्मभ्यः प्रदीयते। अथो वशायास्तत्प्रियं यद्देवत्रा हविः स्यात् ॥
स्वर रहित पद पाठप्रियम् । पशूनाम् । भवति । यत् । ब्रह्मऽभ्य: । प्रऽदीयते । अथो इति । वशाया: । तत् । प्रियम् । यत् । देवऽत्रा । हवि: । स्यात् ॥४.४०॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 40
Translation -
It is a thing dear to the cattle that she is presented to the priests; further, that is a thing dear to the cow, that she be an oblation to the gods.