अथर्ववेद - काण्ड 9/ सूक्त 1/ मन्त्र 23
सूक्त - अथर्वा
देवता - मधु, अश्विनौ
छन्दः - द्विपदार्ची पङ्क्तिः
सूक्तम् - मधु विद्या सूक्त
मधु॑मान्भवति॒ मधु॑मदस्याहा॒र्यं भवति। मधु॑मतो लो॒काञ्ज॑यति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठमधु॑ऽमान् । भ॒व॒ति॒ । मधु॑ऽमत् । अ॒स्य॒ । आ॒ऽहा॒र्य᳡म् । भ॒व॒ति॒ । मधु॑ऽमत: । लो॒कान् । ज॒य॒ति॒ । य: । ए॒वम् । वेद॑ ॥१.२३॥
स्वर रहित मन्त्र
मधुमान्भवति मधुमदस्याहार्यं भवति। मधुमतो लोकाञ्जयति य एवं वेद ॥
स्वर रहित पद पाठमधुऽमान् । भवति । मधुऽमत् । अस्य । आऽहार्यम् । भवति । मधुऽमत: । लोकान् । जयति । य: । एवम् । वेद ॥१.२३॥
अथर्ववेद - काण्ड » 9; सूक्त » 1; मन्त्र » 23
Translation -
He becomes rich in sweetness; his possessions becomes full of sweetness; he wins the worlds of sweetness, he who knows this.