अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 18
सूक्त - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मप्रकाशन सूक्त
केने॒मां भूमि॑मौर्णो॒त्केन॒ पर्य॑भव॒द्दिव॑म्। केना॒भि म॒ह्ना पर्व॑ता॒न्केन॒ कर्मा॑णि॒ पुरु॑षः ॥
स्वर सहित पद पाठकेन॑ । इ॒माम् । भूमि॑म् । औ॒र्णो॒त् । केन॑ । परि॑ । अ॒भ॒व॒त् । दिव॑म् । केन॑ । अ॒भि । म॒ह्ना । पर्व॑तान् । केन॑ । कर्मा॑णि । पुरु॑ष:॥२.१८॥
स्वर रहित मन्त्र
केनेमां भूमिमौर्णोत्केन पर्यभवद्दिवम्। केनाभि मह्ना पर्वतान्केन कर्माणि पुरुषः ॥
स्वर रहित पद पाठकेन । इमाम् । भूमिम् । और्णोत् । केन । परि । अभवत् । दिवम् । केन । अभि । मह्ना । पर्वतान् । केन । कर्माणि । पुरुष:॥२.१८॥
अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 18
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १८−(केन) म० ५। कर्ता प्रजापतिना सह (इमाम्) (भूमिम्) (और्णोत्) आच्छादितवान् (केन) परमेश्वरेण (परि अभवत्) सर्वतो व्याप्तवान् (दिवम्) आकाशम् (केन) (अभि) अभ्यभवत्। व्याप्तवान् (मह्ना) महिम्ना (पर्वतान्) शैलान् (केन) (कर्माणि) कृतानि रचितानि वस्तूनि (पुरुषः) मनुष्यः ॥
इस भाष्य को एडिट करें