अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 3
सूक्त - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मप्रकाशन सूक्त
चतु॑ष्टयं युज्यते॒ संहि॑तान्तं॒ जानु॑भ्यामू॒र्ध्वं शि॑थि॒रं कब॑न्धम्। श्रोणी॒ यदू॒रू क उ॒ तज्ज॑जान॒ याभ्यां॒ कुसि॑न्धं॒ सुदृ॑ढं ब॒भूव॑ ॥
स्वर सहित पद पाठचतु॑ष्टयम् । यु॒ज्य॒ते॒ । संहि॑तऽअन्तम् । जानु॑ऽभ्याम् । ऊ॒र्ध्वम् । शि॒थि॒रम् । कब॑न्धम् । श्रोणी॒ इति॑ । यत् । ऊ॒रू इति॑ । क: । ऊं॒ इति॑ । तत् । ज॒जा॒न॒ । याभ्या॑म् । कृसि॑न्धम् । सुऽदृ॑ढम् । ब॒भूव॑ ॥२.३॥
स्वर रहित मन्त्र
चतुष्टयं युज्यते संहितान्तं जानुभ्यामूर्ध्वं शिथिरं कबन्धम्। श्रोणी यदूरू क उ तज्जजान याभ्यां कुसिन्धं सुदृढं बभूव ॥
स्वर रहित पद पाठचतुष्टयम् । युज्यते । संहितऽअन्तम् । जानुऽभ्याम् । ऊर्ध्वम् । शिथिरम् । कबन्धम् । श्रोणी इति । यत् । ऊरू इति । क: । ऊं इति । तत् । जजान । याभ्याम् । कृसिन्धम् । सुऽदृढम् । बभूव ॥२.३॥
अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(चतुष्टयम्) संख्याया अवयवे तयप्। पा० ५।२।४२। चतुर्-तयप्, रेफस्य विसर्गे सत्वे च कृते। ह्रस्वात्तादौ तद्धिते। पा० ८।३।१०१। इति षत्वम्। चतुरवयवयुक्तम् (युज्यते) (संहितान्तम्) संधृतप्रान्तम् (जानुभ्याम्) जङ्घोपरिभागाभ्यां सह (ऊर्ध्वम्) (शिथिरम्) अजिरशिशिरशिथिल०। उ० १।५३। श्रथ मोचने-किरच्, उपधाया इत्वम्, रेफस्य लोपः। अदृढम् (कबन्धम्) अ० ९।४।३। उदरं शरीरम् (श्रोणी) अ० २।३३।५। कटिप्रदेशौ (यत्) ये द्वे (ऊरू) अ० २।३३।५। जङ्घे (कः) प्रश्ने (उ) एव (तत्) ते द्वे (जजान) उत्पादयामास (याभ्याम्) (कुसिन्धम्) इगुपधात् कित्। उ० ४।१२०। कुस श्लेषणे-इन्, कित्+दधातेः-क, अलुक्समासः। श्लेषधारकं देहम् (सुदृढम्) (बभूव) ॥
इस भाष्य को एडिट करें