Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 19
    सूक्त - नारायणः देवता - ब्रह्मप्रकाशनम्, पुरुषः छन्दः - अनुष्टुप् सूक्तम् - ब्रह्मप्रकाशन सूक्त

    केन॑ प॒र्जन्य॒मन्वे॑ति॒ केन॒ सोमं॑ विचक्ष॒णम्। केन॑ य॒ज्ञं च॑ श्र॒द्धां च॒ केना॑स्मि॒न्निहि॑तं॒ मनः॑ ॥

    स्वर सहित पद पाठ

    केन॑ ।प॒र्जन्य॑म् । अनु॑ । ए॒ति॒ । केन॑ । सोम॑म् । वि॒ऽच॒क्ष॒णम् । केन॑ । य॒ज्ञम् । च॒ । अ॒ध्दाम् । च॒ । केन॑ । अ॒स्मि॒न् । निऽहि॑तम् । मन॑: ॥२.१९॥


    स्वर रहित मन्त्र

    केन पर्जन्यमन्वेति केन सोमं विचक्षणम्। केन यज्ञं च श्रद्धां च केनास्मिन्निहितं मनः ॥

    स्वर रहित पद पाठ

    केन ।पर्जन्यम् । अनु । एति । केन । सोमम् । विऽचक्षणम् । केन । यज्ञम् । च । अध्दाम् । च । केन । अस्मिन् । निऽहितम् । मन: ॥२.१९॥

    अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 19

    टिप्पणीः - १९−(केन) प्रजापतिना (पर्जन्यम्) सेचकं मेघम् (अनु) निरन्तरम् (एति) प्राप्नोति (केन) (सोमम्) अमृतरसम् (विचक्षणं) दर्शनीयं (केन) (यज्ञम्) देवपूजासंगतिकरणदानसामर्थ्यम् (च) (श्रद्धाम्) सत्यधारणशक्तिम् (च) (केन) (अस्मिन्) दृश्यमाने शरीरे (निहितम्) धृतम् (मनः) अन्तःकरणम् ॥

    इस भाष्य को एडिट करें
    Top