अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 31
सूक्त - नारायणः
देवता - साक्षात्परब्रह्मप्रकाशनम्
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मप्रकाशन सूक्त
अ॒ष्टाच॑क्रा॒ नव॑द्वारा दे॒वानां॒ पूर॑यो॒ध्या। तस्यां॑ हिर॒ण्ययः॒ कोशः॑ स्व॒र्गो ज्योति॒षावृ॑तः ॥
स्वर सहित पद पाठअ॒ष्टाऽच॑क्रा । नव॑ऽद्वारा । दे॒वाना॑म् । पू: । अ॒यो॒ध्या । तस्या॑म् । हि॒र॒ण्यय॑: । कोश॑: । स्व॒:ऽग: । ज्योति॑षा । आऽवृ॑त: ॥२.३१॥
स्वर रहित मन्त्र
अष्टाचक्रा नवद्वारा देवानां पूरयोध्या। तस्यां हिरण्ययः कोशः स्वर्गो ज्योतिषावृतः ॥
स्वर रहित पद पाठअष्टाऽचक्रा । नवऽद्वारा । देवानाम् । पू: । अयोध्या । तस्याम् । हिरण्यय: । कोश: । स्व:ऽग: । ज्योतिषा । आऽवृत: ॥२.३१॥
अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 31
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३१−(अष्टाचक्रा) करोतेर्घञर्थे-क, द्वित्वम्। चक्रं कर्म रथाङ्गं वा। यमनियमासनप्राणायामप्रत्याहारधारणा-ध्यानसमाधयोऽष्टावङ्गानि−योगदर्शने। २।२९। इत्यष्टावङ्गानि कर्माणि यस्याः सा (नवद्वारा) मनोबुद्धिसहितैः सप्तशीर्षण्यच्छिद्रैर्युक्ता (देवानाम्) दिवु मदे-अच्। उन्मत्तानां मूर्खाणाम् (पूः) म० २८। पूर्तिपुरी (अयोध्या) अजेया। (तस्याम्) पुरि (हिरण्ययः) ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्यानि च्छन्दसि। पा० ६।४।१७५। मयटो मलोपः। हिरण्यमयः। हिरण्यानि रेतांसि बलानि यस्मिन् सः (कोशः) कुश श्लेषे-घञ्। भाण्डागारः (स्वर्गः) स्वः सुखं गच्छति प्राप्नोतीति यः (ज्योतिषा) प्रकाशस्वरूपेण परमात्मना (आवृतः) आच्छादितः ॥
इस भाष्य को एडिट करें