Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 27
    सूक्त - नारायणः देवता - ब्रह्मप्रकाशनम्, पुरुषः छन्दः - अनुष्टुप् सूक्तम् - ब्रह्मप्रकाशन सूक्त

    तद्वा अथ॑र्वणः॒ शिरो॑ देवको॒शः समु॑ब्जितः। तत्प्रा॒णो अ॒भि र॑क्षति॒ शिरो॒ अन्न॒मथो॒ मनः॑ ॥

    स्वर सहित पद पाठ

    तत् । वै । अथ॑र्वण: । शिर॑: । दे॒व॒ऽको॒श: । सम्ऽउ॑ब्जित: । तत् । प्रा॒ण: । अ॒भि । र॒क्ष॒ति॒ । शिर॑: । अन्न॑म् । अथो॒ इति॑ । मन॑: ॥२.२७॥


    स्वर रहित मन्त्र

    तद्वा अथर्वणः शिरो देवकोशः समुब्जितः। तत्प्राणो अभि रक्षति शिरो अन्नमथो मनः ॥

    स्वर रहित पद पाठ

    तत् । वै । अथर्वण: । शिर: । देवऽकोश: । सम्ऽउब्जित: । तत् । प्राण: । अभि । रक्षति । शिर: । अन्नम् । अथो इति । मन: ॥२.२७॥

    अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 27

    टिप्पणीः - २७−(तत्) (वै) एव (अथर्वणः) म० २६। निश्चलपरमेश्वरस्य (शिरः) मस्तकम् (देवकोशः) कुश श्लेषे-घञ्। दिव्यगुणानां भाण्डागारः (समुब्जितः) सम्यक् सरलीकृतः (तत्) प्राणः जीवनवायुः (अभि) सर्वतः (रक्षति) पाति (शिरः) (अन्नम्) (अथो) अपि च (मनः) ॥

    इस भाष्य को एडिट करें
    Top