Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 6
    सूक्त - नारायणः देवता - ब्रह्मप्रकाशनम्, पुरुषः छन्दः - जगती सूक्तम् - ब्रह्मप्रकाशन सूक्त

    कः स॒प्त खानि॒ वि त॑तर्द शी॒र्षणि॒ कर्णा॑वि॒मौ नासि॑के॒ चक्ष॑णी॒ मुख॑म्। येषां॑ पुरु॒त्रा वि॑ज॒यस्य॑ म॒ह्मनि॒ चतु॑ष्पादो द्वि॒पदो॑ यन्ति॒ याम॑म् ॥

    स्वर सहित पद पाठ

    क: । स॒प्त । खानि॑ । वि । त॒त॒र्द॒ । शी॒र्षणि॑ । कर्णौ॑ । इ॒मौ । नासि॑के॒ इति॑ । चक्ष॑णी॒ इति॑ । मुख॑म् । येषा॑म् । पु॒रु॒ऽत्रा । वि॒ऽज॒यस्य॑ । म॒ह्यनि॑ । चतु॑:ऽपाद: । द्वि॒ऽपद॑: । यन्ति॑ । याम॑म् ॥२.६॥


    स्वर रहित मन्त्र

    कः सप्त खानि वि ततर्द शीर्षणि कर्णाविमौ नासिके चक्षणी मुखम्। येषां पुरुत्रा विजयस्य मह्मनि चतुष्पादो द्विपदो यन्ति यामम् ॥

    स्वर रहित पद पाठ

    क: । सप्त । खानि । वि । ततर्द । शीर्षणि । कर्णौ । इमौ । नासिके इति । चक्षणी इति । मुखम् । येषाम् । पुरुऽत्रा । विऽजयस्य । मह्यनि । चतु:ऽपाद: । द्विऽपद: । यन्ति । यामम् ॥२.६॥

    अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 6

    टिप्पणीः - ६−(कः) म० ५। कर्ता। जगदीश्वरः (सप्त) (खानि) म० १। छिद्राणि (वि ततर्द) तर्द हिंसायाम्। विदारितवान् (शीर्षणि) शिरसि (कर्णौ) (इमौ) (नासिके) नासाछिद्रे (चक्षणी) अर्तिसृधृ०। उ० २।१०२। चक्षिङ् व्यक्तायां वाचि दर्शने च-अनि। चक्षुषी (मुखम्) (येषाम्) (पुरुत्रा) बहुविधम् (विजयस्य) (मह्मनि) सर्वधातुभ्यो मनिन्। उ० ४।१४५। मह पूजायाम्−मनिन्। महत्त्वे (चतुष्पादः) गवाश्वादयः पशवः (द्विपदः) पक्षिमनुष्यादयः (यन्ति) गच्छन्ति (यामम्) अर्तिस्तुसुहुसृधृ०। उ० १।१४०। या प्रापणे−मन्। मार्गम् ॥

    इस भाष्य को एडिट करें
    Top