अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 28
सूक्त - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - भरिग्बृहती
सूक्तम् - ब्रह्मप्रकाशन सूक्त
ऊ॒र्ध्वो नु सृ॒ष्टास्ति॒र्यङ्नु सृ॒ष्टा३स्सर्वा॒ दिशः॒ पुरु॑ष॒ आ ब॑भू॒वाँ३। पुरं॒ यो ब्रह्म॑णो॒ वेद॒ यस्याः॒ पुरु॑ष उ॒च्यते॑ ॥
स्वर सहित पद पाठऊ॒र्ध्व: । नु । सृ॒ष्टा३: । ति॒र्यङ् । नु । सृ॒ष्टा३: । सर्वा॑: । दिश॑: । पुरु॑ष: । आ । ब॒भू॒वाँ३ । पुर॑म् । य: । ब्रह्म॑ण: । वेद॑ । यस्या॑: । पुरु॑ष: । उ॒च्यते॑ ॥२.२८॥
स्वर रहित मन्त्र
ऊर्ध्वो नु सृष्टास्तिर्यङ्नु सृष्टा३स्सर्वा दिशः पुरुष आ बभूवाँ३। पुरं यो ब्रह्मणो वेद यस्याः पुरुष उच्यते ॥
स्वर रहित पद पाठऊर्ध्व: । नु । सृष्टा३: । तिर्यङ् । नु । सृष्टा३: । सर्वा: । दिश: । पुरुष: । आ । बभूवाँ३ । पुरम् । य: । ब्रह्मण: । वेद । यस्या: । पुरुष: । उच्यते ॥२.२८॥
अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 28
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २८−(ऊर्ध्वः) उच्चस्थः (नु) प्रश्ने। किम् (सृष्टाः ३) विचार्यमाणानाम्। पा० ८।२।९७। इति टेः प्लुतः। सम्यक् सृष्टः (तिर्यङ्) वक्रगामी (नु) (सृष्टाः ३) (सर्वाः) (दिशः) (आ) समन्तात् (बभूवाँ ३) विचार्यमाणानाम्। पा० ८।२।९७। टेः प्लुतः। अणोऽप्रगृह्यस्यानुनासिकः। पा० ८।४।५७। इत्यनुनासिकः। बभूव। व्याप (पुरम्) क्विप् च। पा० ३।२।७६। पॄ पालनपूरणयोः-क्विप्। उदोष्ठ्यपूर्वस्य। पा० ७।१।१०२। उकारादेशः। पूर्तिम्। नगरीम् (यः) योगी (ब्रह्मणः) परमेश्वरस्य (वेद) जानाति (यस्याः) पुरः सकाशात्। पूर्तिकारणात् (पुरुषः) पुरः कुषन्। उ० ४।७४। पुर अग्रगमने-कुषन्, यद्वा, पॄ पालनपूरणयोः-कुषन्। उदोष्ठ्यपूर्वस्य। पा० ७।१।१०२। उकारः। यद्वा पुर्+षद्लृ गतौ, यद्वा, शीङ् स्वप्ने षस स्वप्ने वा−ड, पृषोदरादिरूपम्। पुरुषः पुरिषादः पुरिशयः पूरयतेर्वा-निरु० २।३। अग्रगामी। पूरयिता। परिपूर्णः। परमेश्वरः। मनुष्यः (उच्यते) कथ्यते ॥
इस भाष्य को एडिट करें