अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 20
सूक्त - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मप्रकाशन सूक्त
केन॒ श्रोत्रि॑यमाप्नोति॒ केने॒मं प॑रमे॒ष्ठिन॑म्। केने॒मम॒ग्निं पूरु॑षः॒ केन॑ संवत्स॒रं म॑मे ॥
स्वर सहित पद पाठकेन॑ । श्रोत्रि॑यम् । आ॒प्नो॒ति॒ । केन॑ । इ॒मम् । प॒र॒मे॒ऽस्थित॑म् । केन॑ । इ॒मम् । अ॒ग्निम् । पुरु॑ष: । केन॑ । स॒म्ऽव॒त्स॒रम् । म॒मे॒ ॥२.२०॥
स्वर रहित मन्त्र
केन श्रोत्रियमाप्नोति केनेमं परमेष्ठिनम्। केनेममग्निं पूरुषः केन संवत्सरं ममे ॥
स्वर रहित पद पाठकेन । श्रोत्रियम् । आप्नोति । केन । इमम् । परमेऽस्थितम् । केन । इमम् । अग्निम् । पुरुष: । केन । सम्ऽवत्सरम् । ममे ॥२.२०॥
अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 20
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २०−(केन) केन द्वारा (श्रोत्रियम्) अ० ९।६(३)।७। वेदज्ञमाचार्य्यम् (आप्नोति) प्राप्नोति (केन) (परमेष्ठिनम्) अ० १।७।२। उत्तमपदस्थं परमात्मानम् (केन) (इमम्) (अग्निम्) सूर्यविद्युत्पार्थिवाग्निरूपम् (पुरुषः) मनुष्यः (केन) (संवत्सरम्) कालमित्यर्थः (ममे) माङ् माने-लिट्। मापितवान्। वशीकृतवान् ॥
इस भाष्य को एडिट करें