अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 26
सूक्त - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मप्रकाशन सूक्त
मू॒र्धान॑मस्य सं॒सीव्याथ॑र्वा॒ हृद॑यं च॒ यत्। म॒स्तिष्का॑दू॒र्ध्वः प्रैर॑य॒त्पव॑मा॒नोऽधि॑ शीर्ष॒तः ॥
स्वर सहित पद पाठमू॒र्धान॑म् । अ॒स्य॒ । स॒म्ऽसीव्य॑ । अथ॑र्वा । हृद॑यम् । च॒ । यत् । म॒स्तिष्का॑त् । ऊ॒र्ध्व: । प्र । ऐ॒र॒य॒त् । पव॑मान: । अधि॑ । शी॒र्ष॒त: ॥२.२६।
स्वर रहित मन्त्र
मूर्धानमस्य संसीव्याथर्वा हृदयं च यत्। मस्तिष्कादूर्ध्वः प्रैरयत्पवमानोऽधि शीर्षतः ॥
स्वर रहित पद पाठमूर्धानम् । अस्य । सम्ऽसीव्य । अथर्वा । हृदयम् । च । यत् । मस्तिष्कात् । ऊर्ध्व: । प्र । ऐरयत् । पवमान: । अधि । शीर्षत: ॥२.२६।
अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 26
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २६−(मूर्धानम्) अ० ३।६।६। मस्तकम् (अस्य) मनुष्यस्य (संसीव्य) सम्+षिवु तन्तुसन्ताने-ल्यप्। संवाय। तन्तुभिर्नाडिभिर्यथा संगतं कृत्वा (अथर्वा) अ० ४।१।७। अ+थर्व चरणे=गतौ-वनिप्। अथर्वाणोऽथर्वन्तस्थर्वतिश्चरतिकर्मा तत्प्रतिषेधः-निरु० ११।१८। निश्चलः परमात्मा (हृदयम्) (च) (यत्) (मस्तिष्कात्) अ० २।३३।१। मस्तकस्नेहात्। मस्तकबलात् (ऊर्ध्वः) (प्र) बहिः (ऐरयत्) आगच्छत् (पवमानः) अ० ३।३१।२। शुद्धस्वभावः (अधि) उपरि (शीर्षतः) मस्तकात् ॥
इस भाष्य को एडिट करें