अथर्ववेद - काण्ड 11/ सूक्त 4/ मन्त्र 12
सूक्त - भार्गवो वैदर्भिः
देवता - प्राणः
छन्दः - अनुष्टुप्
सूक्तम् - प्राण सूक्त
प्रा॒णो वि॒राट्प्रा॒णो देष्ट्री॑ प्रा॒णं सर्व॒ उपा॑सते। प्रा॒णो ह॒ सूर्य॑श्च॒न्द्रमाः॑ प्रा॒णमा॑हुः प्र॒जाप॑तिम् ॥
स्वर सहित पद पाठप्रा॒ण: । वि॒ऽराट् । प्रा॒ण: । देष्ट्री॑ । प्रा॒णम् । सर्वे॑ । उप॑ । आ॒स॒ते॒ । प्रा॒ण: । ह॒ । सूर्य॑: । च॒न्द्रमा॑ । प्रा॒णम । आ॒हु॒: । प्र॒जाऽप॑तिम् ॥६.१२॥
स्वर रहित मन्त्र
प्राणो विराट्प्राणो देष्ट्री प्राणं सर्व उपासते। प्राणो ह सूर्यश्चन्द्रमाः प्राणमाहुः प्रजापतिम् ॥
स्वर रहित पद पाठप्राण: । विऽराट् । प्राण: । देष्ट्री । प्राणम् । सर्वे । उप । आसते । प्राण: । ह । सूर्य: । चन्द्रमा । प्राणम । आहु: । प्रजाऽपतिम् ॥६.१२॥
अथर्ववेद - काण्ड » 11; सूक्त » 4; मन्त्र » 12
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १२−(प्राणः) म० १ (विराट्) विविधेश्वरः (देष्ट्री) दिश दाने आज्ञापने च-तृच्, ङीप्। मार्गदर्शिका शक्तिः (प्राणम्) परमात्मानम् (सर्वे) जनाः (उपासते) सेवन्ते (ह) एव (सूर्यः) सर्वप्रेरकः परमेश्वरः (चन्द्रमाः) आह्लादकरः (प्राणम्) (आहुः) कथयन्ति विद्वांसः (प्रजापतिम्) सृष्टिपालकम् ॥
इस भाष्य को एडिट करें