अथर्ववेद - काण्ड 11/ सूक्त 4/ मन्त्र 21
सूक्त - भार्गवो वैदर्भिः
देवता - प्राणः
छन्दः - मध्येज्योतिर्जगती
सूक्तम् - प्राण सूक्त
एकं॒ पादं॒ नोत्खि॑दति सलि॒लाद्धं॒स उ॒च्चर॑न्। यद॒ङ्ग स तमु॑त्खि॒देन्नैवाद्य न श्वः स्या॑न्न रात्री॒ नाहः॑ स्या॒न्न व्युच्छेत्क॒दा च॒न ॥
स्वर सहित पद पाठएक॑म् । पाद॑म् । न । उत् । खि॒द॒ति॒ । स॒लि॒लात् । हं॒स: । उ॒त्ऽचर॑न् । यत् । अ॒ङ्ग । स: । तम् । उ॒त्ऽखि॒देत् । न । ए॒व । अ॒द्य । न । श्व: । स्या॒त् । न । रात्री॑ । न । अह॑: । स्या॒त् । न । वि । उ॒च्छे॒त् । क॒दा । च॒न ॥६.२१॥
स्वर रहित मन्त्र
एकं पादं नोत्खिदति सलिलाद्धंस उच्चरन्। यदङ्ग स तमुत्खिदेन्नैवाद्य न श्वः स्यान्न रात्री नाहः स्यान्न व्युच्छेत्कदा चन ॥
स्वर रहित पद पाठएकम् । पादम् । न । उत् । खिदति । सलिलात् । हंस: । उत्ऽचरन् । यत् । अङ्ग । स: । तम् । उत्ऽखिदेत् । न । एव । अद्य । न । श्व: । स्यात् । न । रात्री । न । अह: । स्यात् । न । वि । उच्छेत् । कदा । चन ॥६.२१॥
अथर्ववेद - काण्ड » 11; सूक्त » 4; मन्त्र » 21
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २१−(एकम्) इण्भीकापा०। उ० ३।४३। इण् गतौ-कन्। व्यापकम्। सत्यम्। मुख्यम् (पादम्) पद गतौ स्थैर्ये च-घञ्। स्थितिनियमम् (न) निषेधे (उत् खिदति) उद्धरति। उत्क्षिपति (सलिलात्) अ० ९।१०।९। समुद्रादिवाऽगम्यसामर्थ्यात् (हंसः) अ० १०।८।१७। वृतॄवदि०। उ० ३।६२। हन हिंसागत्योः-स। पक्षिविशेषः। सूर्यः। परमात्मा। योगिभेदः। शरीरस्थवायुविशेषः। एवमादयः-शब्दकल्पद्रुमे (उच्चरन्) उद्गच्छन् (अङ्ग) संबोधने (सः) हंसः। परमात्मा (तम्) पादम्। स्थितिनियमम् (उत्खिदेत्) उत्क्षिपेत् (नैव) न कदापि (अद्य) वर्तमानं दिनम् (न) (श्वः) आगामिदिनम् (स्यात्) (न) (न) (रात्री) (न) (अहः) दिनम् (न) (वि उच्छेत्) व्युच्छनम्, उषसः प्रादुर्भावो भवेत् (कदाचन) कदापि ॥
इस भाष्य को एडिट करें