Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 4/ मन्त्र 8
    सूक्त - भार्गवो वैदर्भिः देवता - प्राणः छन्दः - पथ्यापङ्क्तिः सूक्तम् - प्राण सूक्त

    नम॑स्ते प्राण प्राण॒ते नमो॑ अस्त्वपान॒ते। प॑रा॒चीना॑य ते॒ नमः॑ प्रती॒चीना॑य ते॒ नमः॒ सर्व॑स्मै त इ॒दं नमः॑ ॥

    स्वर सहित पद पाठ

    नम॑: । ते॒ । प्रा॒ण॒ । प्रा॒ण॒ते । नम॑: । अ॒स्तु॒ । अ॒पा॒न॒ते । प॒रा॒चीना॑य । ते॒ । नम॑: । प्र॒ती॒चीना॑य । ते॒ । नम॑: । सर्व॑स्मै । ते॒ । इ॒दम् । नम॑: ॥६.८॥


    स्वर रहित मन्त्र

    नमस्ते प्राण प्राणते नमो अस्त्वपानते। पराचीनाय ते नमः प्रतीचीनाय ते नमः सर्वस्मै त इदं नमः ॥

    स्वर रहित पद पाठ

    नम: । ते । प्राण । प्राणते । नम: । अस्तु । अपानते । पराचीनाय । ते । नम: । प्रतीचीनाय । ते । नम: । सर्वस्मै । ते । इदम् । नम: ॥६.८॥

    अथर्ववेद - काण्ड » 11; सूक्त » 4; मन्त्र » 8

    टिप्पणीः - ८−(नमः) (ते) तुभ्यम् (प्राण) म० १। हे परमेश्वर (प्राणते) श्वसते पुरुषाय (अपानते) प्रश्वासं कुर्वते (पराचीनाय) विभाषाञ्चेरदिक्स्त्रियाम्। पा० ५।४।८। इति स्वार्थिकः खः। पराञ्चनाय। बहिर्गच्छते पुरुषाय (प्रतीचीनाय) प्रतिमुखं सम्मुखं गच्छते पुरुषाय (सर्वस्मै) सर्वहिताय (इदम्) क्रियमाणम् (नमः) नमस्कारः। अन्यद् गतम् ॥

    इस भाष्य को एडिट करें
    Top