अथर्ववेद - काण्ड 11/ सूक्त 4/ मन्त्र 26
सूक्त - भार्गवो वैदर्भिः
देवता - प्राणः
छन्दः - बृहतीगर्भानुष्टुप्
सूक्तम् - प्राण सूक्त
प्राण॒ मा मत्प॒र्यावृ॑तो॒ न मद॒न्यो भ॑विष्यसि। अ॒पां गर्भ॑मिव जी॒वसे॒ प्राण॑ ब॒ध्नामि॑ त्वा॒ मयि॑ ॥
स्वर सहित पद पाठप्राण॑ । मा । मत् । प॒रि॒ऽआवृ॑त: । न । मत् । अ॒न्य: । भ॒वि॒ष्य॒सि॒ । अ॒पाम् । गर्भ॑म्ऽइव । जी॒वसे॑ । प्राण॑ । ब॒ध्नामि॑ । त्वा॒ । मयि॑ ॥६.२६॥
स्वर रहित मन्त्र
प्राण मा मत्पर्यावृतो न मदन्यो भविष्यसि। अपां गर्भमिव जीवसे प्राण बध्नामि त्वा मयि ॥
स्वर रहित पद पाठप्राण । मा । मत् । परिऽआवृत: । न । मत् । अन्य: । भविष्यसि । अपाम् । गर्भम्ऽइव । जीवसे । प्राण । बध्नामि । त्वा । मयि ॥६.२६॥
अथर्ववेद - काण्ड » 11; सूक्त » 4; मन्त्र » 26
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २६−(प्राण) हे प्राणप्रद परमेश्वर (मा) निषेधे (मत्) मत्तः (पर्यावृतः) वृञ् वरणे-क्त। पृथग् वेष्टितः (न) निषेधे (मत्) (अन्यः) पृथग्भूतः (भविष्यसि) (अपाम्) प्राणिनाम्। जलानां वा (गर्भम्) उदरस्थं सन्तानम्, गर्भवद् वर्तमानं जलं वा (इव) यथा (जीवसे) जीवनाय (प्राण) (बध्नामि) धरामि (त्वा) त्वाम् (मयि) आत्मीये ॥
इस भाष्य को एडिट करें