अथर्ववेद - काण्ड 11/ सूक्त 4/ मन्त्र 17
सूक्त - भार्गवो वैदर्भिः
देवता - प्राणः
छन्दः - अनुष्टुप्
सूक्तम् - प्राण सूक्त
य॒दा प्रा॒णो अ॒भ्यव॑र्षीद्व॒र्षेण॑ पृथि॒वीं म॒हीम्। ओष॑धयः॒ प्र जा॑य॒न्तेऽथो॒ याः काश्च॑ वी॒रुधः॑ ॥
स्वर सहित पद पाठय॒दा । प्रा॒ण: । अ॒भि॒ऽअव॑र्षीत् । व॒र्षेण॑ । पृ॒थि॒वीम् । म॒हीम् । ओष॑धय: । प्र । जा॒य॒न्ते॒ । अथो॒ इति॑ । या: । का: । च॒ । वी॒रुध॑: ॥६.१७॥
स्वर रहित मन्त्र
यदा प्राणो अभ्यवर्षीद्वर्षेण पृथिवीं महीम्। ओषधयः प्र जायन्तेऽथो याः काश्च वीरुधः ॥
स्वर रहित पद पाठयदा । प्राण: । अभिऽअवर्षीत् । वर्षेण । पृथिवीम् । महीम् । ओषधय: । प्र । जायन्ते । अथो इति । या: । का: । च । वीरुध: ॥६.१७॥
अथर्ववेद - काण्ड » 11; सूक्त » 4; मन्त्र » 17
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १७−पूर्वार्धर्चो व्याख्यातः-म० ५ (ओषधयः) अन्नादिपदार्थाः (प्र जायन्ते) (अथो) अनन्तरमेव (याः) (काः) (च) (वीरुधः) अ० १।३२।१। विरोहणशीला लतादयः ॥
इस भाष्य को एडिट करें