अथर्ववेद - काण्ड 11/ सूक्त 4/ मन्त्र 20
सूक्त - भार्गवो वैदर्भिः
देवता - प्राणः
छन्दः - अनुष्टुब्गर्भा त्रिष्टुप्
सूक्तम् - प्राण सूक्त
अ॒न्तर्गर्भ॑श्चरति दे॒वता॒स्वाभू॑तो भू॒तः स उ॑ जायते॒ पुनः॑। स भू॒तो भव्यं॑ भवि॒ष्यत्पि॒ता पु॒त्रं प्र वि॑वेशा॒ शची॑भिः ॥
स्वर सहित पद पाठअ॒न्त: । गर्भ॑: । च॒र॒ति॒ । दे॒वता॑सु । आऽभू॑त: । भू॒त: । स: । ऊं॒ इति॑ । जा॒य॒ते॒ । पुन॑: । स: । भू॒त: । भव्य॑म् । भ॒वि॒ष्यत् । पि॒ता । पु॒त्रम् । प्र । वि॒वे॒श॒ । शची॑भि:॥६.२०॥
स्वर रहित मन्त्र
अन्तर्गर्भश्चरति देवतास्वाभूतो भूतः स उ जायते पुनः। स भूतो भव्यं भविष्यत्पिता पुत्रं प्र विवेशा शचीभिः ॥
स्वर रहित पद पाठअन्त: । गर्भ: । चरति । देवतासु । आऽभूत: । भूत: । स: । ऊं इति । जायते । पुन: । स: । भूत: । भव्यम् । भविष्यत् । पिता । पुत्रम् । प्र । विवेश । शचीभि:॥६.२०॥
अथर्ववेद - काण्ड » 11; सूक्त » 4; मन्त्र » 20
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २०−(अन्तः) मध्ये (गर्भः) गर्भो यथा (चरति) गच्छति। व्याप्नोति (देवतासु) देवेषु। दिव्यपदार्थेषु (आभूतः) समन्ताद् व्याप्तः (भूतः) वर्तमानः। नित्यः (सः) प्राणः परमेश्वरः (उ) एव (जायते) प्रादुर्भवति (पुनः) पश्चात् (सः) प्राणः (भूतः) नित्यः (भव्यम्) भावि (भविष्यत्) उत्पत्स्यमानं जगत् (पिता) रक्षको जनकः (पुत्रम्) (प्र विवेश) प्रविष्टवान् (शचीभिः) कर्मभिः-निघ० २।१। प्रज्ञाभिः-निघ० ३।९ ॥
इस भाष्य को एडिट करें