अथर्ववेद - काण्ड 11/ सूक्त 4/ मन्त्र 5
सूक्त - भार्गवो वैदर्भिः
देवता - प्राणः
छन्दः - अनुष्टुप्
सूक्तम् - प्राण सूक्त
य॒दा प्रा॒णो अ॒भ्यव॑र्षीद्व॒र्षेण॑ पृथि॒वीं म॒हीम्। प॒शव॒स्तत्प्र मो॑दन्ते॒ महो॒ वै नो॑ भविष्यति ॥
स्वर सहित पद पाठय॒दा । प्रा॒ण: । अ॒भि॒ऽअव॑र्षीत् । व॒र्षेण॑ । पृ॒थि॒वीम् । म॒हीम् । प॒शव॑: । तत् । प्र । मो॒द॒न्ते॒ । मह॑: । वै । न॒: । भ॒वि॒ष्य॒ति॒ ॥६.५॥
स्वर रहित मन्त्र
यदा प्राणो अभ्यवर्षीद्वर्षेण पृथिवीं महीम्। पशवस्तत्प्र मोदन्ते महो वै नो भविष्यति ॥
स्वर रहित पद पाठयदा । प्राण: । अभिऽअवर्षीत् । वर्षेण । पृथिवीम् । महीम् । पशव: । तत् । प्र । मोदन्ते । मह: । वै । न: । भविष्यति ॥६.५॥
अथर्ववेद - काण्ड » 11; सूक्त » 4; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(यदा) यस्मिन् काले (प्राणः) म० १। जीवनदाता परमेश्वरः (अभ्यवर्षीत्) अभिषिक्तवान् (पृथिवीम्) भूमिम्। (महीम्) विशालाम् (पशवः) सर्वे जीवजन्तवः (तत्) तदा (प्रमोदन्ते) (प्रहृष्यन्ति) (महः) वर्धनम् (वै) खलु (नः) अस्माकम् (भविष्यति) ॥
इस भाष्य को एडिट करें