अथर्ववेद - काण्ड 11/ सूक्त 4/ मन्त्र 9
सूक्त - भार्गवो वैदर्भिः
देवता - प्राणः
छन्दः - अनुष्टुप्
सूक्तम् - प्राण सूक्त
या ते॑ प्राण प्रि॒या त॒नूर्यो ते॑ प्राण॒ प्रेय॑सी। अथो॒ यद्भे॑ष॒जं तव॒ तस्य॑ नो धेहि जी॒वसे॑ ॥
स्वर सहित पद पाठया । ते॒ । प्रा॒ण॒ । प्रि॒या । त॒नू: । यो इति॑ । ते॒ । प्रा॒ण॒ । प्रेय॑सी । अथो॒ इति॑ । यत् । भे॒ष॒जम् । तव॑ । तस्य॑ । न॒: । धे॒हि॒ । जी॒वसे॑ ॥६.९॥
स्वर रहित मन्त्र
या ते प्राण प्रिया तनूर्यो ते प्राण प्रेयसी। अथो यद्भेषजं तव तस्य नो धेहि जीवसे ॥
स्वर रहित पद पाठया । ते । प्राण । प्रिया । तनू: । यो इति । ते । प्राण । प्रेयसी । अथो इति । यत् । भेषजम् । तव । तस्य । न: । धेहि । जीवसे ॥६.९॥
अथर्ववेद - काण्ड » 11; सूक्त » 4; मन्त्र » 9
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ९−(या) (ते) तव (प्राण) (प्रिया) प्रीतिकरी (तनूः) तन उपकारे-ऊ। उपकारक्रिया (यो) या-उ। या च (प्रेयसी) प्रिय-ईयसुन्, प्रादेशः। प्रियतरा (अथो) अपि च (भेषजम्) भयनिवारकं कर्म (तस्य) (नः) अस्माकम् (धेहि) डुधाञ् दाने। दानं कुरु (जीवसे) जीवनवर्धनाय। अन्यद् गतम् ॥
इस भाष्य को एडिट करें