अथर्ववेद - काण्ड 11/ सूक्त 4/ मन्त्र 24
सूक्त - भार्गवो वैदर्भिः
देवता - प्राणः
छन्दः - अनुष्टुप्
सूक्तम् - प्राण सूक्त
यो अ॒स्य स॒र्वज॑न्मन॒ ईशे॒ सर्व॑स्य॒ चेष्ट॑तः। अत॑न्द्रो॒ ब्रह्म॑णा॒ धीरः॑ प्रा॒णो मानु॑ तिष्ठतु ॥
स्वर सहित पद पाठय: । अ॒स्य । स॒र्वऽज॑न्मन: । ईशे॑ । सर्व॑स्य । चेष्ट॑त: । अत॑न्द्र: । ब्रह्म॑णा । धीर॑: । प्रा॒ण: । मा॒ । अनु॑ । ति॒ष्ठ॒तु॒ ॥६.२४॥
स्वर रहित मन्त्र
यो अस्य सर्वजन्मन ईशे सर्वस्य चेष्टतः। अतन्द्रो ब्रह्मणा धीरः प्राणो मानु तिष्ठतु ॥
स्वर रहित पद पाठय: । अस्य । सर्वऽजन्मन: । ईशे । सर्वस्य । चेष्टत: । अतन्द्र: । ब्रह्मणा । धीर: । प्राण: । मा । अनु । तिष्ठतु ॥६.२४॥
अथर्ववेद - काण्ड » 11; सूक्त » 4; मन्त्र » 24
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २४−पूर्वार्धर्चो व्याख्यातः, म० २३। विश्वशब्दस्य स्थाने सर्वशब्दो विशेषः। (अतन्द्रः) निरलसः। (ब्रह्मणा) वेदज्ञानेन (धीरः) धीमान्। बुद्धिमान् (प्राणः) जीवनदाता परमेश्वरः (मा) माम् (अनु) अनुलक्ष्य (तिष्ठतु) वर्तताम् ॥
इस भाष्य को एडिट करें