अथर्ववेद - काण्ड 11/ सूक्त 5/ मन्त्र 13
अ॒ग्नौ सूर्ये॑ च॒न्द्रम॑सि मात॒रिश्व॑न्ब्रह्मचा॒र्यप्सु स॒मिध॒मा द॑धाति। तासा॑म॒र्चींषि॒ पृथ॑ग॒भ्रे च॑रन्ति॒ तासा॒माज्यं॒ पुरु॑षो व॒र्षमापः॑ ॥
स्वर सहित पद पाठअ॒ग्नौ । सूर्ये॑ । च॒न्द्रम॑सि । मा॒त॒रिश्व॑न् । ब्र॒ह्म॒ऽचा॒री । अ॒प्सुऽसु । स॒म्ऽइध॑म् । आ । द॒धा॒ति॒ । तासा॑म् । अ॒र्चीषि॑ । पृथ॑क् । अ॒भ्रे । च॒र॒न्ति॒ । तासा॑म् । आज्य॑म् । पुरु॑ष: । व॒र्षम् । आप॑: ॥७.१३॥
स्वर रहित मन्त्र
अग्नौ सूर्ये चन्द्रमसि मातरिश्वन्ब्रह्मचार्यप्सु समिधमा दधाति। तासामर्चींषि पृथगभ्रे चरन्ति तासामाज्यं पुरुषो वर्षमापः ॥
स्वर रहित पद पाठअग्नौ । सूर्ये । चन्द्रमसि । मातरिश्वन् । ब्रह्मऽचारी । अप्सुऽसु । सम्ऽइधम् । आ । दधाति । तासाम् । अर्चीषि । पृथक् । अभ्रे । चरन्ति । तासाम् । आज्यम् । पुरुष: । वर्षम् । आप: ॥७.१३॥
अथर्ववेद - काण्ड » 11; सूक्त » 5; मन्त्र » 13
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १३−(अग्नौ) पार्थिवतापे (सूर्ये) आदित्ये (चन्द्रमसि) चन्द्रलोके (मातरिश्वन्) अ० ५।१०।८। विभक्तेर्लुक्। मातरि मानकर्तरि आकाशे गमनशीले वायौ (ब्रह्मचारी) म० १ (अप्सु) जलधारासु (समिधम्) प्रकाशसाधनम् (आ दधाति) सम्यग् धरति (तासाम्) अपाम् (अर्चींषि) तेजांसि (पृथक्) नानारूपेण (अभ्रे) जलधारके मेघे (चरन्ति) (तासाम्) (आज्यम्) घृतम्। सारपदार्थम् (पुरुषः) (वर्षम्) वृष्टिजलम् (आपः) आप्ताः प्रजाः-दयानन्दभाष्ये, यजु० ६।२७ ॥
इस भाष्य को एडिट करें