Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 5/ मन्त्र 23
    सूक्त - ब्रह्मा देवता - ब्रह्मचारी छन्दः - पुरोबार्हतातिजागतगर्भा त्रिष्टुप् सूक्तम् - ब्रह्मचर्य सूक्त

    दे॒वाना॑मे॒तत्प॑रिषू॒तमन॑भ्यारूढं चरति॒ रोच॑मानम्। तस्मा॑ज्जा॒तं ब्राह्म॑णं॒ ब्रह्म॑ ज्ये॒ष्ठं दे॒वाश्च॒ सर्वे॑ अ॒मृते॑न सा॒कम् ॥

    स्वर सहित पद पाठ

    दे॒वाना॑म् । ए॒तत् । प॒रि॒ऽसू॒तम् । अन॑भिऽआरूढम् । च॒र॒ति॒ । रोच॑मानम् । तस्मा॑त् । जा॒तम् । ब्राह्म॑णम् । ब्रह्म॑ । ज्ये॒ष्ठम् । दे॒वा: । च॒ । सर्वे॑ । अ॒मृते॑न । सा॒कम् ॥७.२३॥


    स्वर रहित मन्त्र

    देवानामेतत्परिषूतमनभ्यारूढं चरति रोचमानम्। तस्माज्जातं ब्राह्मणं ब्रह्म ज्येष्ठं देवाश्च सर्वे अमृतेन साकम् ॥

    स्वर रहित पद पाठ

    देवानाम् । एतत् । परिऽसूतम् । अनभिऽआरूढम् । चरति । रोचमानम् । तस्मात् । जातम् । ब्राह्मणम् । ब्रह्म । ज्येष्ठम् । देवा: । च । सर्वे । अमृतेन । साकम् ॥७.२३॥

    अथर्ववेद - काण्ड » 11; सूक्त » 5; मन्त्र » 23

    टिप्पणीः - २३−(देवानाम्) प्रकाशमानानां लोकानाम् (एतत्) एतेस्तुट् च। उ० १।१३३। इण् गतौ-अदि तुट् च। व्यापकं ब्रह्म (परिषूतम्) षू क्षेपे प्रेरणे-क्त। परितः सूतम्। सर्वतः प्रेरकम् (अनभ्यारूढम्) अनाक्रान्तं सर्वोत्कृष्टम् (चरति) व्याप्नोति (रोचमानम्) दीप्यमानम्। अन्यद् व्याख्यातम् म० ५ ॥

    इस भाष्य को एडिट करें
    Top