Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 5/ मन्त्र 12
    सूक्त - ब्रह्मा देवता - ब्रह्मचारी छन्दः - शाक्वरगर्भा चतुष्पदा विराडति जगती सूक्तम् - ब्रह्मचर्य सूक्त

    अ॑भि॒क्रन्द॑न्स्त॒नय॑न्नरु॒णः शि॑ति॒ङ्गो बृ॒हच्छेपोऽनु॒ भूमौ॑ जभार। ब्र॑ह्मचा॒री सि॑ञ्चति॒ सानौ॒ रेतः॑ पृथि॒व्यां तेन॑ जीवन्ति प्र॒दिश॒श्चत॑स्रः ॥

    स्वर सहित पद पाठ

    अ॒भि॒ऽक्रन्द॑न् । स्त॒नय॑न् । अ॒रु॒ण: । शि॒ति॒ङ्ग: । बृ॒हत् । शेप॑: । अनु॑ । भूमौ॑ । ज॒भा॒र॒ । ब्र॒ह्म॒ऽचा॒री । सि॒ञ्च॒ति॒ । सानौ॑ । रेत॑: । पृ॒थि॒व्याम् । तेन॑ । जी॒व॒न्ति॒ । प्र॒ऽदिश॑: । चत॑स्र: ॥७.१२॥


    स्वर रहित मन्त्र

    अभिक्रन्दन्स्तनयन्नरुणः शितिङ्गो बृहच्छेपोऽनु भूमौ जभार। ब्रह्मचारी सिञ्चति सानौ रेतः पृथिव्यां तेन जीवन्ति प्रदिशश्चतस्रः ॥

    स्वर रहित पद पाठ

    अभिऽक्रन्दन् । स्तनयन् । अरुण: । शितिङ्ग: । बृहत् । शेप: । अनु । भूमौ । जभार । ब्रह्मऽचारी । सिञ्चति । सानौ । रेत: । पृथिव्याम् । तेन । जीवन्ति । प्रऽदिश: । चतस्र: ॥७.१२॥

    अथर्ववेद - काण्ड » 11; सूक्त » 5; मन्त्र » 12

    टिप्पणीः - १२−(अभिक्रन्दन्) अभितः शब्दं कुर्वन् (स्तनयन्) गर्जन् (अरुणः) अर्तेश्च। उ० ३।६०। ऋ गतौ-उनन्, स च चित्। गतिमान्। सूर्यः (शितिङ्गः) क्रमितमिशतिस्तम्भामत इच्च। उ० ४।१२२। शत हिंसायाम्-इन्, स च कित्, अत इकारः। खच्प्रकरणे गमेः सुप्युपसंख्यानम्। खच्च डिद् वा वक्तव्यः। वा० पा० ३।२।३८। शिति+गम-खच्, स च डित्। शितिः शुक्लः कृष्णश्च तयोर्मध्ये गच्छति यः सः। प्रकाशान्धकारयोर्मध्ये समानगमनः। शितिपात्-अ० ३।२९।१। (बृहत्) महत् (शेषः) अ० ४।३७।७। उत्पादनसामर्थ्यम् (अनु) निरन्तरम् (भूमौ) पृथिव्याम् (जभार) जहार। प्रापितवान् (सिञ्चति) वर्षति (सानौ) पर्वतस्थे समभूमिदेशे (रेतः) बीजम् (पृथिव्याम्) (तेन) कर्मणा (जीवन्ति) प्राणान् धारयन्ति (प्रदिशः) प्राच्याद्या महादिशः। तत्रत्याः प्राणिनः (चतस्रः) चतुःसंख्याकाः ॥

    इस भाष्य को एडिट करें
    Top