Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 5/ मन्त्र 9
    सूक्त - ब्रह्मा देवता - ब्रह्मचारी छन्दः - बृहतीगर्भा त्रिष्टुप् सूक्तम् - ब्रह्मचर्य सूक्त

    इ॒मां भूमिं॑ पृथि॒वीं ब्र॑ह्मचा॒री भि॒क्षामा ज॑भार प्रथ॒मो दिवं॑ च। ते कृ॒त्वा स॒मिधा॒वुपा॑स्ते॒ तयो॒रार्पि॑ता॒ भुव॑नानि॒ विश्वा॑ ॥

    स्वर सहित पद पाठ

    इ॒माम् । भूमि॑म् । पृ॒थि॒वीम् । ब्र॒ह्म॒ऽचा॒री । भि॒क्षाम् । आ । ज॒भा॒र॒ । प्र॒थ॒म: । दिव॑म् । च॒ । ते इति॑ । कृ॒त्वा । स॒म्ऽइधौ॑ । उप॑ । आ॒स्ते॒ । तयो॑: । आर्पि॑ता । भुव॑नानि । विश्वा॑ ॥७.९॥


    स्वर रहित मन्त्र

    इमां भूमिं पृथिवीं ब्रह्मचारी भिक्षामा जभार प्रथमो दिवं च। ते कृत्वा समिधावुपास्ते तयोरार्पिता भुवनानि विश्वा ॥

    स्वर रहित पद पाठ

    इमाम् । भूमिम् । पृथिवीम् । ब्रह्मऽचारी । भिक्षाम् । आ । जभार । प्रथम: । दिवम् । च । ते इति । कृत्वा । सम्ऽइधौ । उप । आस्ते । तयो: । आर्पिता । भुवनानि । विश्वा ॥७.९॥

    अथर्ववेद - काण्ड » 11; सूक्त » 5; मन्त्र » 9

    टिप्पणीः - ९−(इमाम्) दृश्यमानाम् (भूमिम्) (पृथिवीम्) प्रथिताम्। विस्तृताम् (ब्रह्मचारी) म० १ (भिक्षाम्) याच्ञाम् (आ जभार) आजहार। समन्ताद् गृहीतवान् (प्रथमः) प्रधानः (दिवम्) सूर्यम् (च) (ते) द्यावापृथिव्यौ (कृत्वा) विधाय (समिधौ) समिद्रूपे (उपास्ते) परमात्मानं परिचरति (तयोः) द्यावापृथिव्योर्मध्ये (आर्पिता) समन्तात् स्थापितानि (भुवनानि) लोकाः (विश्वा) सर्वाणि ॥

    इस भाष्य को एडिट करें
    Top