Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 5/ मन्त्र 24
    सूक्त - ब्रह्मा देवता - ब्रह्मचारी छन्दः - त्रिष्टुप् सूक्तम् - ब्रह्मचर्य सूक्त

    ब्र॑ह्मचा॒री ब्रह्म॒ भ्राज॑द्बिभर्ति॒ तस्मि॑न्दे॒वा अधि॒ विश्वे॑ स॒मोताः॑। प्रा॑णापा॒नौ ज॒नय॒न्नाद्व्या॒नं वाचं॒ मनो॒ हृद॑यं॒ ब्रह्म॑ मे॒धाम् ॥

    स्वर सहित पद पाठ

    ब्र॒ह्म॒ऽचा॒री । ब्रह्म॑ । भ्राज॑त् । बि॒भ॒र्ति॒ । तस्मि॑न् । दे॒वा: । अधि॑ । विश्वे॑ । स॒म्ऽओता॑: । प्रा॒णा॒पा॒नौ । ज॒नय॑न् । आत् । वि॒ऽआ॒नम् । वाच॑म् । मन॑: । हृद॑यम् । ब्रह्म॑ । मे॒धाम् ॥७.२४॥


    स्वर रहित मन्त्र

    ब्रह्मचारी ब्रह्म भ्राजद्बिभर्ति तस्मिन्देवा अधि विश्वे समोताः। प्राणापानौ जनयन्नाद्व्यानं वाचं मनो हृदयं ब्रह्म मेधाम् ॥

    स्वर रहित पद पाठ

    ब्रह्मऽचारी । ब्रह्म । भ्राजत् । बिभर्ति । तस्मिन् । देवा: । अधि । विश्वे । सम्ऽओता: । प्राणापानौ । जनयन् । आत् । विऽआनम् । वाचम् । मन: । हृदयम् । ब्रह्म । मेधाम् ॥७.२४॥

    अथर्ववेद - काण्ड » 11; सूक्त » 5; मन्त्र » 24

    टिप्पणीः - २४−(ब्रह्मचारी) म० १। वेदाध्येता (ब्रह्म) वेदज्ञानम् (भ्राजत्) शॄदॄभसोऽदिः। उ० १।१३०। भ्राजृ दीप्तौ-अदि। प्रकाशमानः (बिभर्ति) धरति (तस्मिन्) ब्रह्मचारिणि (देवाः) दिव्यगुणाः (अधि) अधिकारपूर्वकम् (विश्वे) सर्वे (समोताः) सम्+आङ्+वेञ् तन्तुसन्ताने-क्त। अन्तर्व्याप्ताः (प्राणापानौ) श्वासप्रश्वासयोर्विद्याम् (जनयन्) प्रकटयन् (आत्) अनन्तरम् (व्यानम्) सर्वशरीरव्यापकवायुविद्याम् (वाचम्) भाषणविद्याम् (मनः) मननविद्याम् (हृदयम्) हृदयविद्याम्। (ब्रह्म) ब्रह्मविद्याम् (मेधाम्) धारणावतीं बुद्धिम् ॥

    इस भाष्य को एडिट करें
    Top