Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 5/ मन्त्र 26
    सूक्त - ब्रह्मा देवता - ब्रह्मचारी छन्दः - मध्येज्योतिरुष्णिक्त्रिष्टुप् सूक्तम् - ब्रह्मचर्य सूक्त

    तानि॒ कल्प॑द् ब्रह्मचा॒री स॑लि॒लस्य॑ पृ॒ष्ठे तपो॑ऽतिष्ठत्त॒प्यमा॑नः समु॒द्रे। स स्ना॒तो ब॒भ्रुः पि॑ङ्ग॒लः पृ॑थि॒व्यां ब॒हु रो॑चते ॥

    स्वर सहित पद पाठ

    तानि॑ । कल्प॑त् । ब्र॒ह्म॒ऽचा॒री । स॒लि॒लस्य॑ । पृ॒ष्ठे । तप॑: । अ॒ति॒ष्ठ॒त् । त॒प्यमा॑न: । स॒मु॒द्रे । स: । स्ना॒त: । ब॒भ्रु: । पि॒ङ्ग॒ल: । पृ॒थि॒व्याम् । ब॒हु । रो॒च॒ते॒ ॥७.२६॥


    स्वर रहित मन्त्र

    तानि कल्पद् ब्रह्मचारी सलिलस्य पृष्ठे तपोऽतिष्ठत्तप्यमानः समुद्रे। स स्नातो बभ्रुः पिङ्गलः पृथिव्यां बहु रोचते ॥

    स्वर रहित पद पाठ

    तानि । कल्पत् । ब्रह्मऽचारी । सलिलस्य । पृष्ठे । तप: । अतिष्ठत् । तप्यमान: । समुद्रे । स: । स्नात: । बभ्रु: । पिङ्गल: । पृथिव्याम् । बहु । रोचते ॥७.२६॥

    अथर्ववेद - काण्ड » 11; सूक्त » 5; मन्त्र » 26

    टिप्पणीः - २६−(तानि) पूर्वोक्तकर्माणि (कल्पत्) कल्पयन् (ब्रह्मचारी) म० १। वेदाध्येता वीर्यनिग्राहकः पुरुषः (सलिलस्य) विद्यारूपजलस्य (पृष्ठे) उपरिभागे (तपः) इन्द्रियनिग्रहादितपश्चरणम् (अतिष्ठत्) स्थितवान् (तप्यमानः) कुर्वाणः (समुद्रे) समुद्ररूपे गम्भीरे ब्रह्मचर्ये (सः) ब्रह्मचारी (स्नातः) विद्यायां कृतस्नानः। वेदाध्ययनान्तरं कृतसमावर्तनाङ्गस्नानः। स्नातकः (बभ्रुः) कुर्भ्रश्च। उ० १।२२। डुभृञ् धारणपोषणयोः-कु द्वित्वञ्च। पोषकः (पिङ्गलः) कुटिकशिकौतिभ्यो मुट् च। उ० १।१०९। पिजि वर्णे, दीप्तौ, वासे, बले, हिंसायां दाने च-कल। दीप्यमानः। बलवान् (पृथिव्याम्) भूलोके (बहु) विविधम् (रोचते) दीप्यते ॥

    इस भाष्य को एडिट करें
    Top