Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 5/ मन्त्र 14
    सूक्त - ब्रह्मा देवता - ब्रह्मचारी छन्दः - अनुष्टुप् सूक्तम् - ब्रह्मचर्य सूक्त

    आ॑चा॒र्यो मृ॒त्युर्वरु॑णः॒ सोम॒ ओष॑धयः॒ पयः॑। जी॒मूता॑ आस॒न्त्सत्वा॑न॒स्तैरि॒दं स्वराभृ॑तम् ॥

    स्वर सहित पद पाठ

    आ॒ऽचा॒र्य᳡: । मृ॒त्यु: । वरु॑ण: । सोम॑: । ओष॑धय: । पय॑: । जी॒मूता॑: । आ॒स॒न् । सत्वा॑न: । तै: । इ॒दम् । स्व᳡: । आऽभृ॑तम् ॥७.१४॥


    स्वर रहित मन्त्र

    आचार्यो मृत्युर्वरुणः सोम ओषधयः पयः। जीमूता आसन्त्सत्वानस्तैरिदं स्वराभृतम् ॥

    स्वर रहित पद पाठ

    आऽचार्य: । मृत्यु: । वरुण: । सोम: । ओषधय: । पय: । जीमूता: । आसन् । सत्वान: । तै: । इदम् । स्व: । आऽभृतम् ॥७.१४॥

    अथर्ववेद - काण्ड » 11; सूक्त » 5; मन्त्र » 14

    टिप्पणीः - १४−(आचार्यः) म० १। साङ्गोपाङ्गरहस्यवेदाध्यापकः (मृत्युः) मृत्युरूपः (वरुणः) जलरूपः (सोमः) चन्द्ररूपः (पयः) दुग्धरूपः (जीमूताः) जेर्मूट् चोदात्तः। उ० ३।९१। जि जये-क्त, मूडागमो धातोर्दीर्घश्च। जयन्त्यनावृष्टिं ये। मेघाः (आसन्) (सत्वानः) अ० ५।२०।८। षद्लृ गतौ-क्वनिप्। गतिशीलाः। वीररूपाः (तैः) मेघैः (इदम्) उपस्थितम् (स्वः) सुखम् (आहृतम्) आहृतम्। प्राप्तम् ॥

    इस भाष्य को एडिट करें
    Top