अथर्ववेद - काण्ड 11/ सूक्त 5/ मन्त्र 20
सूक्त - ब्रह्मा
देवता - ब्रह्मचारी
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मचर्य सूक्त
ओष॑धयो भूतभ॒व्यम॑होरा॒त्रे वन॒स्पतिः॑। सं॑वत्स॒रः स॒हर्तुभि॒स्ते जा॒ता ब्र॑ह्मचा॒रिणः॑ ॥
स्वर सहित पद पाठओष॑धय: । भू॒त॒ऽभ॒व्यम् । अ॒हो॒रा॒त्रे इति॑ । वन॒स्पति॑: । स॒म्ऽव॒त्स॒र: । स॒ह । ऋ॒तुऽभि॑: । ते । जा॒ता: । ब्र॒ह्म॒ऽचा॒रिण॑: ॥७.२०॥
स्वर रहित मन्त्र
ओषधयो भूतभव्यमहोरात्रे वनस्पतिः। संवत्सरः सहर्तुभिस्ते जाता ब्रह्मचारिणः ॥
स्वर रहित पद पाठओषधय: । भूतऽभव्यम् । अहोरात्रे इति । वनस्पति: । सम्ऽवत्सर: । सह । ऋतुऽभि: । ते । जाता: । ब्रह्मऽचारिण: ॥७.२०॥
अथर्ववेद - काण्ड » 11; सूक्त » 5; मन्त्र » 20
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २०−(ओषधयः) अ० १।२३।१। ओषध्यः फलपाकान्ता बहुपुष्पफलोपगाः। मनु० १।४६। ओषः पाको धीयते यासु। व्रीहियवाद्याः (भूतभव्यम्) अतीतमुत्पत्स्यमानं च जगत् (अहोरात्रे) दिनं रात्रिश्च (वनस्पतिः) अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः। मनु० १।४७। अश्वत्थादिवृक्षः (संवत्सरः) अ० १।३५।४। सम्+वस निवासे-सरन्। वर्षकालः (सह) (ऋतुभिः) वसन्ताद्यैः कालविशेषैः (ते) पूर्वोक्ताः (जाताः) प्रसिद्धाः भवन्ति (ब्रह्मचारिणा) ब्रह्मचारिसकाशात् ॥
इस भाष्य को एडिट करें